Monday, June 17, 2024

Sharada Bhujanga शारदा भुजङ्ग प्रयात

      श्री शारदा-भुजङ्ग-प्रयाताष्टकम्


श्री गुरुभ्यो नमः हरिः ॐ 

सुवक्षोजकुम्भां सुधापूर्णकुम्भांप्रसादावलम्बां प्रपुण्यावलम्बाम् ।सदास्येन्दुबिम्बां सदानोष्ठबिम्बांभजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रांकलाभिर्विनिद्रां कलापैः सुभद्राम् ।पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रांभजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

ललामाङ्कफालां लसद्नानलोलांस्वभक्तैकपालां यशःश्रीकपोलाम् ।करे त्वक्षमालां कनत्प्रत्नलोलांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

सुसीमन्तवेणीं दृशा निर्जितैणींरमत्कीरवाणीं नमद्वज्रपाणीम् ।सुधामन्थरास्यां मुदा चिन्त्यवेणींभजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

सुशान्तां सुदेहां दृगन्ते कचान्तांल सत्सल्लताङ्गी मनन्तामचिन्त्याम् ।स्मृतां तापसैः सर्गपूर्वस्थितां तांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रेमराले मदेभे महोक्षेऽधिरूढाम् ।महत्यां नवम्यां सदा सामरूपांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं भजन्मानसाम्भोज सुभ्रान्तभृङ्गीम् ।निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गींभजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

भवाम्भोजनेत्राजसम्पूज्यमानांलसन्मन्दहासप्रभावक्त्रचिह्नाम् ।चलच्चञ्चलाचारुताटङ्ककर्णांभजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

॥ शारदाभुजङ्गप्रयाताष्टकं सम्पूर्णम् ॥

No comments:

Post a Comment