Saturday, November 30, 2024

Papa Nashini Chandika पापनाशिनी चण्डिके



प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी |

पापनाशिनी चण्डिके श्रीगायत्रि नमोSस्तु ते || १ ||

त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी |

दु:खनाशिनी चण्डिके अनसूये नमोSस्तु ते || २ ||

भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी |

अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोस्तु ते | ३ |

सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी |

एवमेव त्वया कार्यं अस्मद् वैरिविनाशनम् || ४ ||

पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि |

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै

रक्ष रक्ष परमेश्वरि || ५ ||

रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान् | ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै क्षमस्व मे परमेश्वरि || ६ ||

त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति | ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै प्रसीद मे परमेश्वरि || ७ ||

अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी |

भयेभ्यस्त्राहि नो देवि शुभंकरे नमोSस्तु ते || ८ ||

बिभिषणौ उवाच

पापोSहं पापकर्माSहं पापात्मा पापसंभवः |

त्राहि मां आदिमाते सर्वपापहरा भव || ९ ||

No comments:

Post a Comment