श्री गुरुभ्यो नमः हरी ॐ
पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिनी ।
मनोज्ञंमकुरं रूढमशोकस्य शुभानना ॥१
वर्द्धयामास तं चापि कृतसंस्कारमंगला ।
बृहस्पतिमुखैर्विप्रर्दिवस्पतिपुरोगमैः ॥२॥
ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः ।
भवानि भवती भव्या सम्भूता लोकभूतये ॥३॥
प्रायः सुतफलो लोकः पुत्रपौत्रेश्च लभ्यते ।
अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः ॥४॥
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि ।
फलं किं भाविता देवि कल्पितैस्तरुपुत्रकैः ।
इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम् ॥५॥
देव्युवाच
एवं निरुदके देशे यः कूपं कारयेद्बुधः ।
बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि ॥६॥
दशकूपसमा वापी दशवापीसमो ह्रदः ।
दशह्रदसमः पुत्रो दशपुत्रसमोद्रुमः ।
एषैव मम मर्यादा नियता लोकभाविनी ॥७॥
इति श्री दशपुत्रसमोद्रुम् स्तोत्रं संपूर्णं.

श्री कृष्णार्पणमस्तु

No comments:
Post a Comment