Wednesday, September 17, 2025

*Kaivalya Ashtakam कैवल्याष्टकम्

                          श्री कैवल्याष्टकम् 

श्री गुरुभ्यो नमः हरी: ॐ 
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम्।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥१॥

आब्रह्मस्तंबपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥

स गुरुः स पिता चापि सा माता बन्धवोऽपि सः।
शिक्षयेच्चेत् सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥

निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥

हरिस्सदा वसेत्तत्र यत्र भागवता जनाः।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥

अहो दुःखं महादुःखं दुःखाद्दुःखतरं यथा।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥

दीयतां दीयतां कर्णो नीयतां नीयतां वचः।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम्  ॥७॥

तृणीकृत्य जगत्सर्वं राजते सकलोपरि।
चिदानन्दमयं नित्यं हरेर्नामैव केवलम्  ॥८॥

इति श्री कैवल्याष्टकम् संपूर्णम्
श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment