Friday, September 19, 2025

*Narayana Stotram. श्री नारायण स्तोत्रम् शांडिल्य संहिता

श्री नारायणस्तोत्रम्  (शांडिल्य संहिता )

श्री गुरुभ्यो नमः हरी: ॐ 

नारायणो यो नरभूजलायो नारायणोऽज्ञाननिवर्तनेन ।

नारायणोऽन्तर्यमनेन पुंसां तमादिनारायणदेवमीडे ॥ १॥


पुराणवर्णाः पुरुषोत्तमस्य पुराणमन्त्रः पुरुषः पुराणः ।

दधार योऽसौ परिपूर्णरूपस्तमादिनारायणदेवमीडे ॥ २॥


मन्त्रात्मको मन्त्रगुणैस्सुतो यो यस्सर्वमन्त्रान्प्रददौ मुनिभ्यः ।

मन्त्राधिदेवोऽखिलमन्त्रगम्यतस्मादिनारायणदेवमीडे ॥ ३॥


निश्वासभूता निगमालिरस्य प्रश्वासरूपागमपङ्क्तिरिद्धा ।

समस्तशास्त्राणि च यस्य वाचस्तमादिनारायणदेवमीडे ॥ ४॥


यस्याष्टवर्णं मनुराजमेकं समाश्रितस्संसृतिपारमेति ।

विधेर्विधानं न ह्यत्र किञ्चित् तमादिनारायणदेवमीडे ॥ ५॥


यो वासुदेवः खलु वामदेवो यो देवदेवः प्रथमं ततोऽभूत् ।

पार्श्वद्वयादस्य च वक्षसश्च तमादिनारायणदेवमीडे ॥ ६॥


शेषाय देवाय विशेषभर्त्रे अशेषमन्त्रान्प्रददौ सशेषान् ।

निःशेषतः क्लेशनिवृत्तयेऽसौ तमादिनारायणदेवमीडे ॥ ७॥


गुरुर्गुरूणामृषभो ऋषीणां यों देवदेवः खलु देवतानाम् ।

यश्चेश्वराणां परमेश्वरोऽसौ तमादिनारायणदेवमीडे ॥ ८॥


इति नारायणस्तोत्रं भणितं त्रिपुरारिणा ।

पठनाच्छ्रवणात्सद्यो हृद्यां शुद्धिं प्रयच्छति ॥ ९॥


इति श्री शाण्डिल्य संहितायां पञ्चमे भक्तिखण्डे

एकादशोऽध्याये नारायणस्तोत्रं सम्पूर्णम् ।  

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment