श्री साम्ब सदाशिव भुजंग प्रयात स्तोत्रम्
कद वा विरक्तिः कदा वा सुभक्तिः
कदा वा महायोगि संसेव्य मुक्तिः |
हृदाकाश मध्ये सदा संवसंतं
सदानन्दरूपं शिवं साम्बमीढे || १ ||
सुधीराजहम्सैः सुपुण्यावत्मसैः
सुरश्री समेतै: सदाचारपुतै: |
अदोषैः सुरुद्राक्षभूषाविशेषै-
-रदीनैर्विभूत्यङ्गरागोज्ज्वलाङ्गैः || २ ||
शिवध्यानसंसक्त शुद्धान्तरङ्गैः
महाशैवपञ्चाक्षरी मन्त्रसिद्धैः |
तमो मोचकै रेचकैः पूरकाद्यैः
समुद्दीपिताधार मख्याब्जशट्कैः || ३ ||
हठल्लम्बिका राजयोग प्रभवा -
-ल्लुठत्कुण्डली व्यक्त मुक्तावकाशां |
सहस्रारपद्मस्थितां पारवारां
सुधामाधुरीं साधुरीत्या पिबद्भिः || ४ ||
सदानन्द कन्दैर्महायोगिबृन्दैः
सदासेव्यमानं समुज्ज्रुम्भमाणं |
महापुण्यपाके पुनः पुण्डरीके
सदा संवसन्तं चिदानन्दरूपं || ५ ||
तटित्पुञ्ज चञ्च ज्जटाजूट वाटी
नटज्जह्नुकन्या तटिन्या समेतम् |
महानर्घ माणिक्य कोटीराहीर
प्रभा पूरितार्धेन्दु रेखावतंसं || ६ ||
फणाभृन्मणि कुण्डलालोलकर्णः
द्वयी चारुता दर्पणाद्गण्डभागम् |
सुनेत्रालिकं सादर भृविलासं
समन्दस्मिताssस्यारविन्दं श्रयन्तम् || ७ ||
लसत्पीवरां सद्वयं नीलकंठम्
महोरस्थलं सूक्ष्म मध्यप्रदेशम |
वलिद्योतमानोदरं दिव्यानभिम्
कुठारैण श्यान्बनचिताभ्यां कराभ्यां || ८ ||
मुखाब्जैः स्तुवन्तं कराब्जैर्नमन्तम्
विधिं मानयन्तं मुनीन्लायन्तं |
गणान्पोषयन्तं मृदुक्तीर्वदन्तम्
गुहं चैकदन्तं करेण स्प्रुशन्तम् || ९ ||
महादेवमन्तर्भजेहं भजेहम्
सदा पार्वतीशं भजेहं भजेहम् |
सदानन्दरूपं भजेहं भजेहम्
चिदानन्दरूपं भजेहं भजेहम् || १० ||
भुजङ्गप्रयातस्तवं साम्बमूर्ते-
-रीमं ध्यान गम्यं तदेकाग्रचित्तः |
पठेद्यः सुभक्तः समर्थः कृतार्थः
सदा तस्य साक्षात्प्रसन्न: शिवः स्यात् || ११ ||
इति श्रीमद शङ्करभागवत्पादाचार्य विरचितं
श्री साम्बसदाशिव भुजङ्ग प्रयात स्तोत्रं सम्पूर्णं
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment