Sunday, September 20, 2026

Ekadasha Ganesha Stotram. एकादश श्री गणेशस्तोत्रम्

 श्रीयुगपुरुषाकृतं 
एकादश श्री गणेशस्तोत्रम् 

श्री गुरुभ्ये नमः हरी: ॐ 
॥ श्रीगणेशाय नमः ॥
युगपुरुषा ऊचुः ।
गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥

भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च ।
परेशाय पराणां ते पराय च नमो नमः ॥ ३१॥

स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे ।
सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ ३२॥

अमेयशक्तये तुभ्यं नानामायाप्रहारिणे ।
मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ ३३॥

लम्बोदराय लोकानामुदरस्थाय ते नमः ।
एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ ३४॥

त्रिनेत्राय गजाकारवक्त्राय परमात्मने ।
चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ ३५॥

देवाय देवरूपाय देवदेवाय ते नमः ।
देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ ३६॥

सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः ।
सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ ३७॥

ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ ३८॥

किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः ।
योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ ३९॥

एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज ।
स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ ४०॥

(फलश्रुतिः)
श्रीगणेश उवाच ।
स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति ।
पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ ४१॥

यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः ।
भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ ४२॥

वरान् ब्रूत महाभागा ददामि मनसेप्सितान् ।
तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ ४३॥

इति श्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रं सम्पूर्णम् ॥ श्री कृष्णार्पणमस्तु ॥ 
मुद्गलपुराण अष्टम खण्डः । अध्यायः १७ । ८.१७ ३०-४३॥ 

No comments:

Post a Comment