Saturday, May 03, 2025

CHANDIKA ASHTAKAM. श्री चण्डिकाष्टकम्

                      ॥ श्री चण्डिकाष्टकम्॥
श्री गुरुभ्यो नमः हरी: ॐ 
सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै-
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः।
कृतामलाऽवलाकलेवरं वरं भजामहे,
महेशमानसाश्रयन्वहो महो महोदयम्॥१॥

विशाल-शैलकन्दरान्तराल-वासशालिनीं,
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम्।
उमामुपासितां सुरैरूपास्महे महेश्वरीं,
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम्॥२॥

अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे,
समानयन्ति मूर्द्धरागत परागमंघ्रिजम्।
महाविरागिशंकराऽनुरागिणीं नुरागिणी,
स्मरामि चेतसाऽतसीमुमामवाससं नुताम्॥३॥

भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्,
निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम्।
अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम,
प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम्॥४॥

अपीह पामरं विधाय चामरं तथाऽमरं,
नुपामरं परेशिदृग्-विभाविता-वितत्रिके।
प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष-
मोषहेतवे समृद्धिमेलनं पदन्नुमः॥५॥

भभूव्-भभव्-भभव्-भभाभितो-विभासि भास्वर-
प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम्।
मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकर,
प्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे॥६॥

कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा-
दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम्।
वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष-
काव्यकल्पकौशलां कपालकुण्डलां भजे॥७॥

भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्य,
भूमिभूतिभावन प्रभूतिभावुकं भवे।
भवानि नेति ते भवानि! पादपंकजं भजे,
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम्॥८॥

दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या,
भव्यामिमां स्तुतिमुमापतिना प्रणीताम्।
यः श्रावयेत् सपुरूहूतपुराधिपत्य,
भाग्यं लभेत रिपवश्च तृणानि तस्य॥९॥

रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः॥१०॥

॥इति कविपत्युपनामक-श्री उमापतिद्विवेदि-
विरचितं चण्डिकाष्टकं सम्पूर्णम्॥

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment