समर्पयेम गोविन्दनाथाय भक्त्या
श्री गुरुभ्यो नमः हरी: ॐ
नगर्यः समृद्धाः श्रियं दर्शयन्ति।
गृहाणि प्रिया सौख्यसंयोजितानि।
उद्यानरम्याणि शुद्धानि सन्तु।
स्वयञ्चारिणो वनराजयः स्युः॥ १ ||
जपः तप व्रतं च नैवेद्यनम्रः।
अर्घ्यं च शुद्धं प्रयोक्तव्यमेव।
सहाहंकारं परित्यज्य भावात्।
कृतं कर्म तच्चैव सार्थं भवेत्॥ २ ||
लौकिकान् पारलौकिकान् कामान् समर्पयेम।
यज्ञे समिधसङ्काशान्
समर्पयेम गोविन्दनाथाय भक्त्या॥ ३ ||
क्रोधाग्निं हृदि दग्धां तां समर्पयेम यज्ञकुण्डे।
अन्तःकरणदीप्तिं तां
समर्पयेम गोविन्दनाथाय भक्त्या॥ ४ ||
लोभपशुं स्वार्थरूपं समर्पयेम यज्ञकुण्डे।
रोगं स्वार्थजनितं तं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ५ ||
मोहं बन्धनकारणं समर्पयेम यज्ञकुण्डे।
नरालयन्तं तं मोहं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ६ ||
मदमत्तं चित्तं तद् समर्पयेम यज्ञकुण्डे।
चर्विणं रूपेण तं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ७ ||
मात्सर्यं दूषितं विषं समर्पयेम यज्ञकुण्डे।
घृतरूपेण तं विषं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ८ ||
प्रह्लादाम्बरीषयोः पथं समर्पयेम यज्ञकुण्डे।
अरिषड्वर्गं पूर्णाहुतिं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ९ ||
तृणानि यथा तत्त्वमध्ये लयं युः।
प्रलयात्क्षये सर्वमेकात्मनिष्ठम्।
तथैव वयं मानवाः कर्मकर्त्रः।
समर्पयेम गोविन्दनाथाय भक्त्या॥ १० ||
समाहितं तत्त्वतः सर्वमेव।
न यत्नस्य नाशो भवेत्किञ्चिदत्र।
इतीशं प्रपूज्य प्रकामं प्रकामम्।
भवत्वेष साधोर्मम प्रार्थितं तत्॥ ११ ||
* जानकीराम *नगर्यः समृद्धाः श्रियं दर्शयन्ति।
गृहाणि प्रिया सौख्यसंयोजितानि।
उद्यानरम्याणि शुद्धानि सन्तु।
स्वयञ्चारिणो वनराजयः स्युः॥ १ ||
जपः तप व्रतं च नैवेद्यनम्रः।
अर्घ्यं च शुद्धं प्रयोक्तव्यमेव।
सहाहंकारं परित्यज्य भावात्।
कृतं कर्म तच्चैव सार्थं भवेत्॥ २ ||
लौकिकान् पारलौकिकान् कामान् समर्पयेम।
यज्ञे समिधसङ्काशान्
समर्पयेम गोविन्दनाथाय भक्त्या॥ ३ ||
क्रोधाग्निं हृदि दग्धां तां समर्पयेम यज्ञकुण्डे।
अन्तःकरणदीप्तिं तां
समर्पयेम गोविन्दनाथाय भक्त्या॥ ४ ||
लोभपशुं स्वार्थरूपं समर्पयेम यज्ञकुण्डे।
रोगं स्वार्थजनितं तं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ५ ||
मोहं बन्धनकारणं समर्पयेम यज्ञकुण्डे।
नरालयन्तं तं मोहं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ६ ||
मदमत्तं चित्तं तद् समर्पयेम यज्ञकुण्डे।
चर्विणं रूपेण तं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ७ ||
मात्सर्यं दूषितं विषं समर्पयेम यज्ञकुण्डे।
घृतरूपेण तं विषं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ८ ||
प्रह्लादाम्बरीषयोः पथं समर्पयेम यज्ञकुण्डे।
अरिषड्वर्गं पूर्णाहुतिं
समर्पयेम गोविन्दनाथाय भक्त्या॥ ९ ||
तृणानि यथा तत्त्वमध्ये लयं युः।
प्रलयात्क्षये सर्वमेकात्मनिष्ठम्।
तथैव वयं मानवाः कर्मकर्त्रः।
समर्पयेम गोविन्दनाथाय भक्त्या॥ १० ||
समाहितं तत्त्वतः सर्वमेव।
न यत्नस्य नाशो भवेत्किञ्चिदत्र।
इतीशं प्रपूज्य प्रकामं प्रकामम्।
भवत्वेष साधोर्मम प्रार्थितं तत्॥ ११ ||
( सीताराम सुधीराचार्य कट्टी )
No comments:
Post a Comment