अस्य श्री कल्पना विलासस्तोत्रस्य।
श्री जानकीराम कविः। श्रीरामचन्द्रो देवता।
अनुष्टुप् छन्दः। भाव कल्पना प्रकाशार्थं श्रीराम पूजायाः
मानस सङ्कीर्तनायाः सिद्ध्यर्थं च जपे विनियोगः॥
वीणया तन्त्रिलयतः राघवेन्द्रो महामुनिः।
गमकस्वरसञ्चारैः कृष्णं भजति भावतः॥
नादबिन्दुनि लीनात्मा मेळजातिप्रयोगवित्।
सप्तस्वरयुतं गीतं लालयत्येकचेतसा॥
तानक्रीडामयी वाणी यस्य वीणाविनिर्गता।
सा हरिस्मरणे लीनं श्रोत्रं स्पृशति भक्तितः॥
माधवो गानमासक्तो रागैः सत्कविसंमतैः।
तोडीरागे हरिं गायन् ह्लादयत्येष लोकतः॥
यमुनाकल्याणीं लीलां भैरवीं भावपूर्णताम्।
दरबारीं च सौम्यां च हरिनाम्नि विनिर्ममे॥
वेदवाणीं स्वरैर्युक्तां गानरूपेण निर्मलाम्।
समर्पयति लोकाय स गुणैः सत्स्वरूपवत्॥
अनुव्याख्यानमाध्वीयं सम्बन्धज्ञानपूरितम्।
व्याख्याय जयतीर्थेन लोकानां हितमर्पितम्॥
गानभाष्यविवेकेन तत्त्वदीपविचक्षणः।
शब्दार्थं विमृशन् भक्त्या नयत्येष सतां गतिम्॥
महाभाष्यविचारे च न्यायसुधासमाश्रयः।
सन्देहच्छेदकः पण्डितः जयतीर्थः प्रचक्ष्यते॥
प्रमेयानवमालिका प्रकाश्य सुजनोत्तमः।
विवृणोत्यप्रमेयात्मा शास्त्रसारं स्वबुद्धिना॥
रामपूजां सदा युक्तो विधिना नित्यकर्मकृत्।
सत्यबोधमुनिः श्रीमान् साक्षिभूतं हरिं स्मरेत्॥
गन्धपुष्पार्पणं नित्यं शुक्लवस्त्रसमन्वितः।
करोत्येष तपस्वीन्द्रः श्रीरामं भावपूजितम्॥
रामे स्निग्धसुधाभावं यस्य चित्तं प्रपद्यते।
तं नमामि सदा शान्तं सत्यबोधमुनिं गुरुम्॥
हनुमान् नृत्यते तुष्टः रामनामप्रगोष्ठिषु।
तालमार्गविनिर्मुक्तं हरिपादप्रणामवत्॥
भक्तिभाववशात्सोऽयं नमन् नत्वा पुनः पुनः।
गायन् हरिगुणं नाथं लीलया हर्षयत्यपि॥
भूमिः सञ्जातमण्डपः सिन्धुर्नीराजनं ददौ।
गगनं छत्रवत् तिष्ठेत् वृक्षाः पुष्पार्पणाय यत्॥
शङ्खध्वनिर्भवन् वायुः स्वनन् पवित्रवातजः।
दीपाय सूर्यो बभ्राज रामार्चामङ्गलाय सः॥
घण्टारवोऽभवद्वेगात् सिन्धोर्गर्जननिःस्वनः।
नृत्यत्येव प्रकृतिः सर्वा रामे प्रेमपराङ्मुखी॥
नैषा दृष्टिः प्रमाणेऽस्ति न साक्षाद् अनुभवो मम।
कल्पितं भावसम्पूर्णं पश्याम्यन्तःसुधास्नुतम्॥
श्रद्धया कल्पितं पूज्यं रामलीलासुधामयम्।
मनसा भावितं सत्त्वैः साष्टाङ्गं तत्र यत्कृतम्॥
यः पठेत्संयतः काले भक्त्या भावसमन्वितः।
कल्पनाशक्तिमायाति स्थितप्रज्ञः स चोच्यते॥
इति श्रीकल्पनाविलासस्तोत्रं समाप्तम्॥

|| श्री रामभद्रार्पणमस्तु ||
No comments:
Post a Comment