शङ्खः चक्र गदांबुज चापबाणै । राराजितै चंद्रल लक्ष्मी समेत । शर्वादि देवाच्युत पादपल्लवो | गोविन्दराजो वतुमां परेशः ||
अभयं गदिनंच शंखचक्रं चापंतुणिरं द्रष्टमयंतदैव| तेनैवरूपेण चतुर्भुजेन | प्रलयांतको भवविश्व मूर्ते ||
न गोविन्द समो देवो नचाsश्वत्थ समो तरुः |
श्री गुरूभ्यो नमः हरी: ॐ
अस्य श्रीगोविन्दराज मूर्तिलक्षण स्तोत्र मन्त्रस्य | जानकीरामकवि: गोविन्दराजो देवता, विविधाति छन्दः
श्रीगोविन्दराज प्रीत्यर्थं सर्वाsभयप्राप्त्यर्थं जपे विनियोगः॥ अथ ध्यानम्
नीलस्य कुसुमस्य समं स्वरूपं,
शनि-प्रभं दिवि भास्करम् नु।
तेजोभिरार्चिष्मदिवात्यगव्यं,
देवो विराजति व्योम्नि मध्ये॥ 1 ||
पादौ स धर्मस्थिति वल्लभौ तौ,
भीमाजले तीर निविष्ठबन्धू।
अश्वत्थवृक्ष इव ध्रुवे स्थितोऽयं,
कालं सहे दश शतानि शान्तः॥ 2 ||
शुभ्रे शुभ्रे तव न्नेत्रे, नीलतोये विमज्जते।
मत्स्यौ यथाऽम्बुधौ स्वच्छौ, तन्मध्ये तौ प्रकाशते॥ 3 ||
उन्नता तव नासाग्रं, शृङ्गवत् शोभते ध्रुवम्।
हिमवद्भारते रम्ये, स्थितं शान्तिपरं शुभम्॥ 4 ||
एषोऽस्य मुखपद्मो यो, यत्र विश्वं प्रकाशितम्।
द्वापरे यशोदायै तं, बालकृष्णेन दर्शितम्॥ 5 ||
एते कोमल वर्णौष्ठौ, पाटलौ स्निग्ध मन्दसौ।
ये विश्वं पुनराच्छाद्या, बाललीलां प्रपेदतुः॥ 6 ||
केशा झरन्ति शिरसः, केशिनः पवने यथा।
कण्ठं स्पृशन्ति शनकैः, कण्ठस्यानन्दवृत्तयः॥ 7 ||
दृष्टिः समा सदा शान्ता, दृष्टेः शीतलता परा।
दृष्टि पाते मनः स्पृष्टं, दृष्टमात्रेण मुच्यते॥ 8 ||
किरीटो वपुषः शोभां, वपुश्च किरीट मङ्कितम्।
शोभायाः शोभया युक्तं, रूपं तस्य निरामयम्॥ 9 ||
कर्णयोः कुण्डले रत्ने, रश्मि जाल विभूषिते।
वदनं दीपयेत्सौम्यं, सौम्यं वदन मञ्जसाम्॥ 10 ||
वक्षसि श्रीनिवासस्य हारः स्फुरति सुव्रतः।
वैजयन्ती च नित्यश्रीः काञ्चनी च सुसंस्कृता॥ 11 ||
दुष्ट निग्रह शक्तानि बाहू वीर्य समन्वितौ।
धारयञ्छस्त्र वर्षाणि पश्यत्यभय मञ्जलिम्॥ 12 ||
गदां यथा हनूमांश्च शङ्खचक्रं यथा हरिः।
धनुर्धरति रामश्च पद्मं बिभर्ति विध्दतः॥ 13 ||
प्रभात द्युति-सङ्काशं पीताम्बर मुदारशः।
वामनो येन पादाभ्यां व्याप्य विश्वं न मृष्यते॥ 14 ||
ते तं अनुगता दृष्टा यस्य रूपं न दृश्यते।
स एको देवदेवोऽयं न कस्याप्यनुगः क्वचित्॥ 15 ||
पृथिव्याः खं प्रतीकाशं स्थितो देवः सनातनः।
निराकारं वदन्त्येके साकारं अन्य ईश्वरम्॥ 16 ||
न जानामि समग्रं त्वां को हि वर्णयितुं क्षमः। त्वमेवाsश्वत्थरूपेण भूतं भव्यं च विस्तृतः॥ 17 ||
गोविन्दराज! नित्यं त्वं कुलदैवततां गतः।
स्थितोऽसि वृक्षरूपेण जीव शान्ति निवासभूः॥ 18॥
त्वां नमामि महावृक्षं पुण्यच्छाया समुद्गमम्।
कुलस्य रक्षकं नाथं गोविन्दं शरणं गतम्॥ 19॥
नमः श्रीगोविन्दराजाय वृक्षस्थाय दयालवे।
साकारं दर्शयन् भक्तेः निराकारोऽपि केवलः॥ 20॥
त्वत्पादच्छायया नित्यं शान्तिं यान्ति जनाः प्रभो।
त्वद्रूपं दृढभक्तानां चिन्तने निर्मलं मनः॥ 21॥
नमः श्रीगोविन्दराजाय वृक्षरूपाय धीमहे ।
शरणागत वत्सलाय नित्यं भक्त प्रपूजित ॥ 22 ॥
गोविन्दमेकं हृदि भावयामि वेदेषु गूढं पुरषं पुराणम्।
अश्वत्थतल्पे नियतंप्रतिष्ठं विश्वस्यमूले परमंपवित्रं॥ 23 ||
इदं स्तोत्रं शरीरार्थे पठनीयं विशेषतः।
सकारेण निराकारं पश्येत् चित्तेन साधकः॥ 24॥
यो रोग पीडितो जन्तुः शनौ शतजपं पठेत्।
स्वयं वा बान्धवो वापि लभते शरीरश्रियः॥ 25॥
भवेत् स्वास्थ्यमयं तस्य मनःशुद्धिः कलेशजित्।
गोविन्दराज सन्तुष्ट्या दुःखवृन्दं विनश्यति॥ 26॥
इति श्रीगोविन्दराजस्य साकार स्तोत्रमुत्तमम्। जानकीरामकविना लोक शान्त्यै हृदयार्पणम्॥ 27 ॥
|| इति श्री जानकीराम विरचिता श्री गोविन्दराज मूर्तिलक्षण स्तोत्रम् संपूर्णं ||. श्री कृष्णार्पणमस्तु..

No comments:
Post a Comment