ॐ समुद्र वसने देवी पर्वतस्तन मंडले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥
मित्राणि धन धान्यानि प्रजानां सम्मतानिव।
जननी जन्म भूमिश्च स्वर्गादपि गरीयसी॥
भारतार्चन स्तोत्रविंशति
श्री गुरुभ्यो नमः हरी: ॐ
अस्य श्रीमातृभूमिस्तवकविताया जानकीरामकवेः
कृता स्यात्।भक्त्या यो जपते स भक्ततमो भूत्वा नित्यं जपे विनियोगः॥
ध्यानम् ||
भारतः प्राच्यसंस्कृत्याः मूलं पुण्यमयं महत्।
भारतः शान्तिसंस्थायै धर्मध्वजवहः सदा॥ 1 ||
शिला शिला हि भारत्याः सहस्रवर्षसाक्षिणी। रामकृष्णाङ्घ्रिसंलग्ना पुण्या पुण्यपरेण वा॥ 2||
वातः प्रतीतः सकलो विष्णोः पूर्वावतारजः।
यो भारत्याः स सर्वत्र सञ्जीवयति भूतले॥ 3 ||
या या धाराप्रवाहेण भूमौ भारतसंस्थिता।
सा गङ्गेव परं पुण्यं तनुं चेतश्च शोधनम्॥ 4 ||
यो गिरिः भारतस्यैव नितरां ध्येयमन्दिरम्।
तत्राध्यात्मपथस्थानां वासो नित्यं प्रकीर्तितः॥ 5 ||
वृक्षः शिला जलं चैव ऋतवो देवतात्मनः।
सर्वं पश्यामि तत्रैव यत्र भारतभूमिके॥ 6 ||
यत्र स्पर्शः स्वधर्मोऽस्ति दर्शनं च समर्चनम्।
तेषु रूपेषु नित्यं वै वन्दनं क्रियते मुदा॥ 7 ||
चत्वारो वेदाः संजाताः षड्दर्शनविचक्षणाः।
अष्टादश महापुराणाः सम्प्रसूता धरातलात्॥ 8 ||
रामायणं च भारतं रत्नरूपेण निर्गतम्।
यं देशं वेदरत्नानां कोषवद् विद्वदग्रणीः॥ 9 ||
शुभस्य मूर्तिरूपा या संस्कृतेः च महागुरुः।
भारतं सततं स्थेयं भूमौ भूत्वा हिताय वै॥ 10 ||
कोट्यः सेनानिबद्धाश्च येऽपि शत्रव ऊर्युताः।
न शक्नुवन्ति संतत्यै धर्मभारतनाशनम्॥ 11 ||
धर्मे स्थिता हि या भूमिः सा न लुप्ता कदाचन।
नो चेन्मूलं विनश्येत् क्रौर्ययुगं प्रवर्तते॥ 12 ||
न भूयात् पृथिव्यां तद् यद्यपि कलिरिच्छति।
अतीतान्यपि यः श्रायन् भारतं शाश्वतं च नः॥ 13 ||
यत्र रामो न्यवच्छिन्नत् पदं पुण्यप्रवर्तकम्।
यत्र वेणुनिनादेन रञ्जितं कृष्णमानसम्॥ 14 ||
यत्र गङ्गा शिवजटाजलप्रवाहसमुद्भवा।
तं देशं प्रणतो भूत्वा नतोऽहं भक्तिपूर्वकम्॥ 15 ||
नान्ये पादाः प्रपन्नाय नम्याः सन्ति कदाचन।
भारत्याः पादयोरेव शतशोऽहं नमाम्यहम्॥ 16 ||
स्तोत्रमेतत् प्रगायामि मातृभूमे नमोऽस्तु ते।
या मां सञ्चिनुते नित्यं स्नेहेनातिशयेन च॥ 17 ||
न लब्धं यद् अन्यतोऽपि प्रेम यत् त्वयि लभ्यते।
त्वमेव खलु मे माता त्वं दाता प्रेमपूर्णया॥ 18 ||
प्रातः स्तोत्रं समुच्चार्य ये जना भक्तिसंयुताः।
ते मातृभूमेर्भक्तत्वं लभन्ते नात्र संशयः॥ 19 ||
मातरं ये नमस्यन्ति विनया विहितेन च।
तेषां हृदि सदा तिष्ठेत् पुण्यरूपा कृपामयी॥ 20 ||
इति श्रीजानकीरामकविना भक्तिपूर्वकम्।
रचितं मातृभूम्यास्तु स्तोत्रं पुण्यफलप्रदम्॥ 21 ||
|| यत्किंचितदिह लिखितं तत्सर्वम् श्री कृष्णार्पणमस्तु ||
जानकी राम..... ( श्रीं सीतारामाचार्य कट्टी )
No comments:
Post a Comment