Thursday, September 18, 2025

Deena Bandhu Ashtakam. श्री दीन बन्ध्वष्टकं

     श्री दीन बन्ध्वष्टकं

        दीनों की दीनता को हरण करनेवाला दीनबन्धु स्तोत्रम् । इस स्तोत्र का पाठ किसी भी शुक्ल पक्ष की पञ्चमी से शुरू करके अगले शुक्ल पक्ष की पञ्चमी तक तुलसी की माला से प्रतिदिन सुबह चार माला जप "अगर" जलाकर करना है । सारी दुःख, दरिद्रता का हरण करके हर प्रकार की सुख सम्पदा, ऐश्वर्य देता है ।।


श्री दीन बन्ध्वष्टकं

श्री गुरुभ्यो नमः हरी:ॐ 

यस्मादिदं जगदुदेति चतुर्मुखाद्यं

यस्मिन्नवस्थितमशेषमशेषमूले ।

यत्रोपयाति विलयं च समस्तमन्ते 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ १॥


चक्रं सहस्रकरचारु करारविन्दे 

गुर्वी गदा दरवरश्च विभाति यस्य ।

पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ २॥


येनोद्धृता वसुमती सलिले निमग्ना 

नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।

सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ३॥


यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम् 

कोपेक्षणेन दनुजा विलयं व्रजन्ति ।

भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ४॥


गायन्ति सामकुशला यमजं मखेषु 

ध्यायन्ति धीरमतयो यतयो विविक्ते ।

पश्यन्ति योगिपुरुषाः पुरुषं शरीरे 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ५॥


आकाररूपगुणयोगविवर्जितोऽपि

भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।

यः सर्वगोऽपि कृतशेषशरीरशय्यो 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ६॥


यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै- 

राराध्यते भवदवानलदाहशान्त्यै ।

सर्वापराधमविचिन्त्य ममाखिलात्मा 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ७॥


यन्नामकीर्तनपरः श्वपचोऽपि नूनं 

हित्वाखिलं कलिमलं भुवनं पुनाति ।

दग्ध्वा ममाघमखिलं करुणेक्षणेन 

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ८॥


दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।

यः पठेत् प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥ ९॥ 


इति श्री परमहंस स्वामि ब्रह्मानन्द विरचितं

श्री दीन बन्ध्वष्टकं सम्पूर्णम्॥

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment