Wednesday, September 03, 2025

Gouri Girisha Stotram श्री गौरी गिरीश स्तोत्रम्

                       श्री गौरी गिरीश स्तोत्रम्

श्रीगणेशाय नमः । 
ॐ चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
     भक्तौधप्रतिपालने निजतनुछायाजितार्कायुतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥

ॐ अन्योन्यार्च्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ
     चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनी
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ २॥

ॐ सौदर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ
     राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥

ॐ सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-
     नंहोराशिनिवारणैकनिपुणौ ब्रह्मोग्रविष्ण्वर्चितौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ४॥

ॐ कस्तूरीघनसारचर्चिततनू प्रत्यूयमानौ सुरै-
     रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ ।
श‍ृङ्गाद्रिस्थविवामण्डपगतावङ्गावधूतेन्दुभौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ५॥

ॐ वाणीनिर्जितहंसकोकिलरवौ पाणीकृताम्भोरुहौ
     वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदौ
     कल्याणं तनुतां समस्तजगतां गैरीगिरीशौ मुदा ॥ ६॥

ॐ कामापत्तिविभूतिकारणदशौ सोमार्धभूषोज्ज्वलौ
     सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
श‍ृङ्गाद्रिस्थविवामण्डपगतौ माणिक्यभूषान्वितौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ७॥

ॐ दम्भाहङ्कृतिदोषशून्यपुरुषैः सम्भावनीयौ सदा
     जम्भारातिमुखामरेन्द्रविनुतौ कुभात्मजाद्यर्चितौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ८॥

ॐ शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ
     सोपानक्रमतोऽधिकारिभिरनुप्राप्यौ क्षमासागरौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ९॥

ॐ शोणाम्भोरुहतुल्यपादयुगुलौ बाणार्चनातोषितौ
     वीणाधृङ्मुनिगीयमानविभवौ बालारुणाभाम्बरौ ।
श‍ृङ्गाद्रिस्थविवामण्डपगतौ तुल्याधिकैर्वर्जितौ
     कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १०॥

इति गौरीगिरीशस्तोत्रं सम्पूर्णम्  श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment