Friday, September 19, 2025

*Narayana Ashtakshari. श्री मन्नारायण अष्टाक्षरी स्तुति:

श्री मन्नारायण अष्टाक्षरी स्तुति:


श्री गुरुभ्यो नमः हरी: ॐ 

ॐ नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर

व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ 1 ॥


नमो देवादिदेवाय देहसञ्चारहेतवे

दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ 2 ॥


मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्

मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ 3 ॥


नारायणाय नव्याय नरसिंहाय नामिने

नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ 4 ॥


रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्

कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ 5 ॥


यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च

यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ 6 ॥


णाकारं लोकविख्यातं नानाजन्मफलप्रदम्

नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ 7 ॥


यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः

सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ 8 ॥


इति श्री मन्नारायण अष्टाक्षरी स्तुतिः ।

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment