जाम्बूनदोष्णीषविराजिमुक्ता
मालामणिद्योतिशिखण्डकस्य ।
भङ्ग्या नृणां लोलुपयन् दृशः लोलुपयन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ १॥
कपोलयोः कुण्डललास्यहास्य -
च्छविच्छिटाचुम्बितयोर्युगेन ।
संमोहयन् सम्भजतां संमोहयन् सम्भजतांधियः
श्री गोविन्ददेवः शरणं ममास्तु ॥ २॥
स्वप्रेयसीलोचनकोणशीधु
प्राप्त्यै पुरोवर्ति जनेक्षणेन ।
भावं कमप्युद्गमयन् बुधानां
श्री गोविन्ददेवः शरणं ममास्तु ॥ ३॥
वामप्रगण्डार्पितगण्डभास्वत्
ताटङ्कलोलालककान्तिसिक्तैः ।
भ्रूवल्गनैरुन्मदयन् कुलस्त्रीभ्रूवल्गनैरुन्मदयन्
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ४॥
दूरे स्थितास्ता मुरलीनिनादैः
स्वसौरभैर्मुद्रितकर्णपालीः ।
नासारुधो हृद्गत एव कर्षन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ ५॥
नवीनलावण्यभरैः क्षितौ श्री
रूपानुरागाम्बुनिधिप्रकाशैः ।
सतश्चमत्कारवतः प्रकुर्वन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ ६॥
कल्पद्रुमाधोमणिमन्दिरान्तः
श्रीयोगपीठाम्बुरुहास्यया स्वम् ।
उपासयंस्तत्रविदोऽपि मन्त्रै-मन्त्रै
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ७॥
महाभिषेकक्षणसर्ववासोऽ
लङ्कृत्यङ्गीकरणोच्छलन्त्या ।
सर्वाङ्गभासाकुलयंस्त्रिलोकीं
श्री गोविन्ददेवः शरणं ममास्तु ॥ ८॥
गोविन्ददेवाष्टकमेतदुच्चैः
पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः ।
तं मज्जयन्नेव कृपाप्रवाहै -
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ९॥
इति श्रीविश्वनाथ चक्रवर्ति ठक्कुर विरचित
स्तवामृत लहर्यां श्री गोविन्ददेवाष्टकं सम्पूर्णम् ।
मालामणिद्योतिशिखण्डकस्य ।
भङ्ग्या नृणां लोलुपयन् दृशः लोलुपयन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ १॥
कपोलयोः कुण्डललास्यहास्य -
च्छविच्छिटाचुम्बितयोर्युगेन ।
संमोहयन् सम्भजतां संमोहयन् सम्भजतांधियः
श्री गोविन्ददेवः शरणं ममास्तु ॥ २॥
स्वप्रेयसीलोचनकोणशीधु
प्राप्त्यै पुरोवर्ति जनेक्षणेन ।
भावं कमप्युद्गमयन् बुधानां
श्री गोविन्ददेवः शरणं ममास्तु ॥ ३॥
वामप्रगण्डार्पितगण्डभास्वत्
ताटङ्कलोलालककान्तिसिक्तैः ।
भ्रूवल्गनैरुन्मदयन् कुलस्त्रीभ्रूवल्गनैरुन्मदयन्
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ४॥
दूरे स्थितास्ता मुरलीनिनादैः
स्वसौरभैर्मुद्रितकर्णपालीः ।
नासारुधो हृद्गत एव कर्षन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ ५॥
नवीनलावण्यभरैः क्षितौ श्री
रूपानुरागाम्बुनिधिप्रकाशैः ।
सतश्चमत्कारवतः प्रकुर्वन्
श्री गोविन्ददेवः शरणं ममास्तु ॥ ६॥
कल्पद्रुमाधोमणिमन्दिरान्तः
श्रीयोगपीठाम्बुरुहास्यया स्वम् ।
उपासयंस्तत्रविदोऽपि मन्त्रै-मन्त्रै
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ७॥
महाभिषेकक्षणसर्ववासोऽ
लङ्कृत्यङ्गीकरणोच्छलन्त्या ।
सर्वाङ्गभासाकुलयंस्त्रिलोकीं
श्री गोविन्ददेवः शरणं ममास्तु ॥ ८॥
गोविन्ददेवाष्टकमेतदुच्चैः
पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः ।
तं मज्जयन्नेव कृपाप्रवाहै -
श्री र्गोविन्ददेवः शरणं ममास्तु ॥ ९॥
इति श्रीविश्वनाथ चक्रवर्ति ठक्कुर विरचित
स्तवामृत लहर्यां श्री गोविन्ददेवाष्टकं सम्पूर्णम् ।
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment