श्री गोविन्दराज सुप्रभातम्
श्री गुरुभ्ये नमः हरी ॐ
श्रीभूमिनायक दयापर दिव्यमूर्ते
देवादिदेव जगदेकशरण्य विष्णो ।
गोपाङ्गनाकुचतटेषु निमग्नदृष्टे
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१॥
देवादिदेव फणिराजविहङ्गराज-
राजत्किरीटमणिराजविराजिताङ्घ्रे ।
राजाधिराज वसुदेवकुलाधिराज
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥२॥
कासारयोगिपरमाद्भुतभक्तिबद्ध -
वाङ्मूलभूषितमहोत्पलरम्यपाद ।
गोपाधिनाथ वसुदेवकुमार कृष्ण
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥३॥
श्रीभूतयोगिपरिकल्पितदिव्यमान -
ज्ञानप्रदीपपरिदृश्यरतैकतान ।
गोगोपजालपरिरक्षणबद्धदीक्ष
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥ ४॥
मान्यानुभावमहदाह्वययोगिदृष्टे
श्रीशङ्खचक्रकमलासहितामलाङ्ग ।
गोपीजनप्रियचरित्र विचित्रवेष -
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥५॥
श्रीमत्त्वदीयपदपङ्कजभक्तिनिष्ठ-
श्रीभक्तिसारमुनिनिश्चितमुख्यतत्त्व ।
गोपीजनार्तिहर गोपजनान्तरङ्ग
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥६॥
श्रीमत्पराकुशमुनीन्द्रसहस्रशाख -
संस्तूयमानचरणाम्बुज सर्वशेषिन् ।
गोपालवंशतिलकाच्युतपादपद्म
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥ ७॥
शेषाचले महति पादपपक्षिजन्म
तद्भक्तितः स्पृहयता कुलशेखरेण ।
राज्ञा पुनःपुनरुपासितपादपद्म
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥ ८॥
श्रीविष्णुचित्तकृतमङ्गलदिव्यसूक्ते
तन्मानसाम्बुरुहकल्पितनित्यवास ।
गोपालबालयुवतीविटसार्वभौम
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥९॥
श्रीविष्णुचित्तकुलनन्दनकल्पवल्ली
गोदालकान्तविनिवेशितमाल्यलोल ।
गोपाङ्गनाकुचकुलाचलमध्यसुप्त
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥ १०॥
भक्ताङ्घ्रिरेणुमुनिना परमत्वदीय-
शेषत्वमाश्रितवता विमलेन नित्यम् ।
प्राबोधकीस्तुतिकृता ह्यवबोधितश्रीः
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥११॥
श्रीपाणनामकमहामुनिदिव्यनाम -
दिव्यानुभावदयमानदृगञ्चलाख्य ।
पूर्णानुकम्प पुरुषोत्तम पुष्कराक्ष
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१२॥
भक्तोत्तमाय परकालमुनीन्द्रनाम्ने
विश्राणितातुलमहातनुमूलमन्त्र ।
सर्वात्मरक्षणविचक्षण चक्रपाणे
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१३॥
सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन
सौम्योपयन्तुमुनिमानसराजहंस
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१४॥
भक्तप्रपन्नकुलनायकभाष्यकार -
सङ्कल्पकल्पतरुदिव्यफलामलात्मन् ।सङ्कल्पकल्पतरुदिव्यफलामलात्मन्
श्रीशेषशैलनिकटस्थितशेषशायिन्
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१५॥
श्रीमच्छठारिकरुणाश्रितदेवगान -
सारज्ञनाथनुनिसन्नुतपुण्यमूर्त ।
गोब्राह्मणप्रियगुरो श्रितपारिजात
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥ १६॥
देव प्रसिद्ध करुणाकर भक्तवर्ग-भक्तवर्ग
सेनापतिप्रणयिताखिललोकभानो ।
श्रीवासदिव्यनगराधिप राजराज
गोविन्दराज विजयिन् तवविजयिन् सुप्रभातम् ॥१७॥
इति श्रीगोविन्दराजसुप्रभातं सम्पूर्णम् ।
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment