Tuesday, June 30, 2026

Sri Ramadutam Shirasa Namami श्रीरामदूतं शिरसा नमामि

श्रीरामदूतं शिरसा नमामि


श्री गुरुभ्ये नमः हरी: ॐ 


आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्

वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शिरसा नमामि

मकुटरत्नकान्तिमथिततमिस्रं -अरुणोदयरुचिराननकमलं

स्वर्णपिङ्गलभास्वर नेत्रयुगलं - चरितमकरकुण्डलगण्डभागं

नवमणिमयरसनामध्यभागं - तरुणरुचिरशुभतरवरहारं

समलङ्कृतदिव्यस्वर्णोपवीतं - कटितटविलसितकाञ्चनचेलं

मञ्जुमञ्जीरमहितपदाब्जं - दिनमणिशतनिभदिव्यप्रकाशम्

सकलसद्गुणवृन्दसारपयोधिं - दासमुखाम्बोजदशशतभानुं

वाल्मीकिकृतकाव्यवरसरोहंसं - श्रितजनकुवलयशीतमयूखं

रामलावण्याभ्रराजमयूरं - रामचन्द्रपदराजीवमधुपं

तरुणायतदोःस्तम्भगम्भीरं - सुग्रीव -श्रीराम सन्धानहेतुं

सुग्रीववेदितश्रीरामवृत्तान्तं - अग्निसाक्षीकृत अर्कजरामम्

सीताभूषणसमर्पितरामं - श्रीरामसुग्रीवसख्योल्लासं

वालिवधोपायवरमृदुवाक्यं - सुग्रीवपट्टाभिषेकप्रवीणं

वानरसेवासमाहूतधीरं - सकलदेशागतशाखामृगनेतारं

रामचन्द्रदत्तरमणीयभूषं - स्वयम्प्रभादत्तसुफलातिभोज्यं

लङ्कागमनसमलङ्कृतदेहं - सागरोल्लङ्घनसम्पूर्णकायम्

अब्धिमध्यमित्र अगपतिपूज्यं - सुरसामायाध्वान्तसूर्यप्रकाशं

छायाग्रहिच्छेदशमनस्वरूपं - दिव्यद्वेगकृतगोष्पादजलधिं

सुवेलाशिखराग्रशमिताभिगमं - लङ्किणीभञ्जनलावण्यसारं

लङ्कावरोधिनिश्शङ्कितहृदयं - सीतान्वेषणसुरशत्रुसदनं

वायुप्रेरितवरवनगमनं - सीतादर्शनचिन्तापहरणम्

रावणदुर्वाक्य अक्षीणकोपं - सीतानिवेदितश्रीरामकुशलं

राघवीयकथारञ्जितरामं - रामाङ्गुलीयकरामनिवेद्यं

वसुधात्मजादत्तवरशिरोभूषं - अतिशयजलदर्प अशोकभङ्गं

दनुजनिवहवनदहनदावाग्निं - वज्रायुधघोरवालकरालं

सप्तमन्त्रिसुतशलभकृशानुं - जम्बुमालिवधचण्डप्रतापम्

अक्षकुमारसंहरणविक्षेपं - ब्रह्मास्त्रबन्धितब्रह्मवरदानं

चातुर्भागसैन्यचण्डितरूपं - वायुप्रेरितवालाग्निज्वालं

सीताप्रसादितशीतलवालं - वरराक्षसगृहवह्निसन्दग्धं

कपिदृक्चकोरसङ्गतचन्द्रबिम्बं - तारानन्दनादि तरुचरयुक्तं

मधुवनमधुपानमत्तकपीन्द्रं - कौसलेयकार्यकरुणसमर्थम् 

रामनिवेदितरामवृत्तान्तं - वरविभीषणरक्षावाक्यनैपुण्यं

रामसंवर्धितराक्षससङ्ख्यं - अब्धिबन्धनकार्य अमितोत्साहं

प्रबलजलधिसेतुबन्धननिपुणं - धूम्रक्षाकम्पनत्रिशिरसंहारं

रामनामास्त्रेण राक्षसनाशं - रणकर्कशघोरराजितवेषं

रावणघनयुद्धरामतुरङ्गं - मेघनादसैन्यमृत्युस्वरूपं

रक्षेन्द्रजिद्युद्धलक्ष्मणतुरङ्गं - लक्ष्मणमूर्छासंरक्षणहृदयं

सञ्जीवाद्रिगमनसन्तोषस्वान्तं - कालनेमिकृतघनमायायुक्तं

मकरबन्धीकृतमहितपदाब्जं - धान्यमालिनीशापधर्षितरूपं

कालनेमिदनुजखण्डितधीरं - दिकृताद्य्रधीशतीव्रप्रकोपं

गन्धर्वसैन्यसंक्षोभप्रतापं - स्तबकीकृतधृतसञ्जीवनाद्रिम्

भरतसम्बोधितप्रशमितबाणं - माल्यवदादि महोदथधिहरणं

लक्ष्मणप्राणसंरक्षणनिलयं - सौमित्रिसम्मोहजलदसमीरं

अब्धिमध्यमथितराक्षसवरं - स्थूलजङ्घासुरतुमुलसंहरणं

सिन्धूल्लङ्घनजलदसमीरं - वालप्राकारसंवेष्टितवीरं

पाताललङ्काप्रवेशितधीरं - मत्स्यवल्लभधीरमहनीयभीतिम् ॥

मैत्रीकृतधीरमत्स्याधिपत्यं - दोर्दण्डीकृतामितधैर्यप्रतापं

भिन्नतुलायन्त्रभीमस्वरूपं - बलराक्षसकोटिभञ्जिसत्त्वं

श्रुतिवाक्यश्रवणसन्तोषितस्वान्तं - मैरावणकृतमर्मसंवेद्यं

मैरावणसैन्यमर्दितशूरं - महनीयातिघोरमैरावणाजिं

दोर्दण्डिवाक्यातिखण्तदैत्यं - नीलमेघकृतनिस्तुलराज्यं ॥

रामलक्ष्मणपूर्वलङ्काभिगमनं - सकलवानरस्तुतिसन्तोषहृदयं

प्रबलमूलबलप्रलयकालाग्निं - रामारावणयुद्धरामतुरङ्गं

दशकण्ठकण्ठविलुण्ठनदीक्षं - राक्षसानुजदत्तलङ्काभिषेकं

पुष्पकाधिरूढपृथ्वीशसहितं - साकेतपुरवाससबलसंयुक्तं

भक्तपापतिमिरभास्कररूपं - दशकण्ठवधोपायचातुर्ययुक्तम्

एकैकराक्षस एकैकरूपं - दशकण्ठच्छेदनसीताप्रबोधं

अवनिजाधिपयुक्तराज्यप्रवेशं - अश्वमेधयाग अमितोत्साहं

दशशतशिरच्छेददीक्षाप्रतापं - दशशितशिरोधार्यभक्षाभिरक्तं

राक्षससैन्यादिभेदस्वरूपं - दशशतशिरच्छेददशरथसूनुं

सकलसैन्यावृतसाकेतवासं - बोधितकपिवर्यपूर्णस्वरूपम् ॥

झङ्कारोच्चाटितडाकिनीसैन्यं - चलितवालसंवेष्टितकायं

यजितरामपादयजुरादिवाक्यं - श्रीकाकुलेशाश्रितमन्दारं

भक्तजनकारणमुक्तिनिदानं - लीलाविनोदितदानवस्वरूपं

परिपालितभक्तपादपकल्पम्बुधजनवेदितपूर्णस्वरूपम् ॥

मोहनघनभेदमुक्तेविवासं - भद्राचलरामभद्रसमेतं

वरसुन्दररामदासानुपालं - मङ्गलमञ्जनामारुतपुत्रं

श्रीरामदूतं शिरसा नमामि - श्रीरामदूतं शिरसा नमामि ॥

इति श्री रामदूतं शिरसा नमामि जपं सम्पूर्णम् ।

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment