|
इत्यगस्त्य सार संहिताया एकादश मुख हनूमत् कवचम् |
श्री
गणेशायनमः |
लोपामुद्रा
उवाचः |
कुंभोद्भव
दयासिंधो श्रुतं हनुमत् परं |
दयाङ्कुरु
मयि प्राण नाथ वेदि तुमुत्सहे | कवचम्
वायुपुत्रस्य एकादश मुखात्मनः || इत्येवं
वचनं श्रुत्वा प्रियायाः प्रश्नयान्वितं |
वक्तुं
प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ||
अगस्त्य
उवाचः
नमस्कुत्वा
रामदूतां हनुमन्तं महामतिं |
ब्रह्मप्रोक्तन्तु
कवचम् श्रुणु सुन्दरी सादरं ||
सनन्दनाय
समुहत् चतुरानन भाषितंच |
कवचं
कामदं दिव्यं रक्षः कुल निबर्हणं ||
सर्व
संपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे |
ॐ
अस्य श्री कवचस्य एकादश वक्त्रस्य धीमतः ||हनुमत्
स्तुति मन्त्रस्य सनंदन ऋषिः स्मृतः |प्रसन्नात्मा
हनुमांश्च देवता परिकीर्तिताः ||छंदो
अनुष्टुप् समाख्यातं बीजं वायुसुतःस्तथाः | मुख्यः
प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ||सर्व
कामार्थ सिद्ध्यर्थं जपएव मुदिरयेत |
ॐ
स्फ्रें –बीजं शक्ति धृक्पातु शिरोमे पवनात्मजः | ॐ क्रौं –बीजात्मा नयनयोः
पातुमां वानरेश्वरः | ॐ क्षं-बीज रूपः कर्णौ मे सिताशोक विनाशनः | ॐ ग्लौं –बीज
वाच्यो नासां मे
लक्ष्मण प्राणदायकः |ॐ वं-बिजार्थकश्च कंठंमे पातु चाक्षयकारकः | ॐ ऐं- बीजवाच्यो
हृदयं पातु मे कपि नायकः | ॐ वं - बीज कीर्तितः पातु बाहु मे चा ञजनिसुतः |ॐ
ह्रां –बिजो राक्षसेन्द्रस्य दर्पहा पातु चोदरं | ॐ ह्रसौं –बिजमयो मद्ध्यं पातु
लंकाविदाहकः | ॐ ह्रीं-बिजधरः पातु गुय्हं देवेंद्र वन्दितः | ॐ रं – बीजात्मा सदा
पातु चोरुवार्धिलन्घनः |दक्षिणे
नारसिंहस्तु नैऋत्यां गणनायकः | वारुण्या दिशि वामव्या खगवक्त्रो हरीश्वरः |
वायव्यां भैरव मुखः कौबेर्यां पातुमां सदा | क्रोढास्यः पातु मां नित्यं ईशान्यां
रुद्ररुप धृक् | ऊर्ध्वं हयाननः पातु गुय्हाधः सुमुखस्तथा | रामास्य पातु सर्वत्र
सौम्य रूपो महाभुजः | इत्येवं
रामदूतस्य कवचं यः पठॆत्सदा |
एकादशमुखसैतद गौप्यं वै कीर्तितं मया | राक्षोघ्नं कामदं सौम्यं सर्व संपद्विधायकं | पुत्रदं धनदं चोग्र शत्रु संघ
विमर्दनम् | स्वर्गापवर्गदं दिव्यं चिन्तितार्थ प्रदं शुभं | एतत् कवचमज्ञ्यात्वा
मन्त्र सिद्धिः प्रजायते | चत्वारिंशत् सहस्राणि
पठेद् शुद्धात्मको नरः | एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् | द्विवारंवा
त्रिवारंवा पठेन्न आयुष्य माप्नुयात् |
क्रमादेकादशा देवम् आवर्तनजपात्सुधिः | इत्येव मुक्त्वा वचनं महर्षि
तूष्णीं बभुवेम्दु मुखीं निरिक्षः | संह्रुष्ट चित्तापि तदा तुदीय पादौननामाति
मुदास्वभर्तुः |
इत्यगस्त्य सारसंहितायाम् एकादशमुख हनूमत् कवचम् संपूर्णम् ||
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ।।
No comments:
Post a Comment