|| अथ श्री दशरथः प्रोक्त श्री शनैश्चर
स्तोत्रम् ||
अस्यश्री
शनैश्चर स्तोत्र मंत्रस्य दशरथ ऋषिः | शनैश्चरोर्देवता त्रिष्टुप छंदः | शनैश्चर
प्रीत्यर्थ जपे विनियोगः |अथ ध्यानं |
कोणोंतकोरौद्र यमोथबभ्रुः कृष्णः शनिः
पिङ्गल मंद सौरि |
नित्यः स्मृतेयो
हरतेचपीडातस्मै नमः श्री
रविनन्दनाय | १ |
सुरासुराः
पुरुषाणणेन्द्रागन्धर्वविद्याधर पन्नगाश्च |
पीड्यन्तिसर्वे
विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | २ |
नरा नरेंद्रा
पशवो मृगेंद्रावन्याश्चये कीट
पतंग भृंग |
पीड्यन्तिसर्वे
विषमस्थितेन तस्मैनमः श्रीरविनन्दनाय | ३ |
देशाश्च
दुर्गाणि वनानियत्र सेना निवेशाः पुर पत्तनानि | पीड्यन्तिसर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय | ४ | तिलैर्यवैर्माष गुडान्न
दानैर्लोहेन निलांबरदानतोवा |
प्रीणाति मन्त्रैर्निज वासरेच तस्मैनमः श्रीरविनन्दनाय | ५ | प्रयाग कूले यमुना तटेच सरस्वती
पुण्य जलै गृहाणां |
यो योगिनां ध्यानगतोऽपि सूक्ष्मः तस्मैनमःश्री रविनन्दनाय | ६ | अन्यः प्रदेशा स्वगुहं प्रविष्ठः स्त्वदीय
वारे स नरः सुखस्यात | गृहाद्गतोयो न पुनः प्रयाति तस्मै नमः श्री रविनन्दनाय | ७ | सुष्ट्वा स्वयंभू र्भुव नत्रयस्य त्राता
हरिः संहरते पिनाकी | एकस्त्रिधा ऋग्युजुः साममुर्तिः तस्मै नमः श्री रविनन्दनाय | ८ | शन्यष्टकं यः पठतिः प्रभाते नित्यं
सुपुत्रैः पशु बाम्धवैश्च | पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाण पदं
परं सः | ९ | कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोंतको यमः | सौरी शनैश्चरो मंदः
पिप्पलादेन संस्तुतः | १० | एतानि दश नामानि प्रातरुत्थाय यः पठेत् | शनैश्चर
कृतां पीडा नाकदाचिद भविष्यति | ११ |
इति श्री दशरथ
प्रोक्तं शनैश्चर स्तोत्रम् संपूर्णम् | श्री कृष्णार्र्पणमस्तु |
No comments:
Post a Comment