Thursday, November 07, 2024

HARYASHTAKAM. हर्यष्टकम्

 प्रह्लादेन कृतं स्तोत्रं  श्री हर्यष्टकम



श्री गुरूभ्यो नमः  हरी: ॐ 
हरिर्हरति पापानि दुष्टचितैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥1

स गँगा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्या हरिरित्यक्षर द्वयम् ॥2

वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥3

पृथिव्यां यानि तीर्थानि पुन्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षर द्वयम् ॥4

गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥5

ॠग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥6

अश्वमेधैर्महायज्ञैः नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥7

प्राण प्रयाण पाथेयं संसार व्याधिनाशनम् ।
दुःखात्यन्त परित्राणं हरिरित्यक्षर द्वयम् ॥8

बद्ध परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षर द्वयम् ॥9

हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशो वृद्धिश्श्रियावहम् ॥10

प्रह्लादेन कृतं स्तोत्रं दुःखसागर शोषणम् ।
यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥11

॥ ॐ नमः भगवते वासुदेवाये ॥

|| श्री कृष्णार्पणमस्तु. ||


No comments:

Post a Comment