Sunday, April 13, 2025

BUDHA KAVACHAM. बुध कवचम्

 अथ श्री बुधकवचस्तोत्रम्

श्री गुरुभ्यो नमः हरी ॐ 
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः |
अनुष्टुप् छंदःI बुधो देवता |बुधपीडाशमनार्थं जपे विनियोगः ||

बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः |
पितांबरधरः पातु पितमाल्यानुलेपनः || १ ||

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः || २ ||

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम |
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः || ३ ||

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः || ४ ||

जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु || ५ ||

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् || ६ ||

आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् |
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् || ७ ||


||  इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ||


No comments:

Post a Comment