Sunday, April 13, 2025

SHUKRA KAVACHAM. शुक्र कवचम्

अथ शुक्रकवचम्

श्री गुरुभ्यो नमः हरी ॐ 
अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य 
भारद्वाज ऋषिः  ।अनुष्टुप् छन्दः  । शुक्रो देवता  ।
शुक्रप्रीत्यर्थं जपे विनियोगः ॥

मृणालकुन्देन्दुषयोजसुप्रभं 
पीतांबरं प्रस्रुतमक्षमालिनम्  ।
समस्तशास्त्रार्थनिधिं महांतं 
ध्यायेत्कविं वांछितमर्थसिद्धये ॥ १ ॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः  ।
 नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ॥ २ ॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः  ।
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ ३ ॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः  ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥ ४ ॥

कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः  ।
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ ५ ॥

गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः  ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः  ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥

 ॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं ॥


No comments:

Post a Comment