1
श्री अगस्त्यमहर्षिस्तोत्रम्
(शार्दूलविक्रीडितवृत्तम् )
श्री गुरुभ्ये नमः हरी: ॐ
जीवोद्धारपरायणा सुसरिता कावेरिनामाङिकता
यच्छक्तिः सुमहोज्वला सुखघना राराजते क्ष्मातले ।
वातापील्वलराक्षसावृषिमुनिस्वाध्यायविध्वंसिनौ
ध्वस्तौ येन तपोबलात्तमनघं तं नौम्यगस्त्यं गुरुम् ॥ १॥
सिद्धानामतिशायिशक्तिविभवं सामर्थ्यमूर्तिं गुरुं
कन्दर्पोद्धतदुष्टदर्पकरिनुच्छार्दूलकीर्तिप्रभम् ।कन्दर्पोद्धतदुष्टदर्पकरिनुच्छार्दूलकीर्तिप्रभम्
दुष्टारण्यविनाशनैकबलभृद्दावानलं शोभनं
वन्दे कुम्भजमद्गुतं भवभयभ्रान्त्यर्णवापोशनम् ॥भवभयभ्रान्त्यर्णवापोशनम् २॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं
श्री अगस्त्यमहर्षिस्तोत्रं सम्पूर्णम्
***************************************
2
आसप्तरात्रोदयमेतदस्य दातव्यमेतत्सकलं नरेण ।
यावत्समाः सप्त दशाथवा स्युरथोर्ध्वमप्यत्र वदन्ति केचित् ॥४९
अगस्त्यस्तोत्रम्
काशपुष्पप्रतीकाश वह्निमारुतसम्भव ।
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥ ५०॥
विन्ध्यवृद्धिक्षयकर मेघतोयविषापह ।
रत्नवल्लभ देवेश लङ्कावासिन्नमोऽस्तु ते ॥ ५१॥
वातापी भक्षितो येन समुद्रः शोषितः पुरा ।
लोपामुद्रा पतिः श्रीमान्योऽसौ तस्मै नमो नमः ॥ ५२॥
इति मत्स्यपुराणे एकषष्टितमाध्यायान्तर्गतं
अगस्त्यस्तोत्रं समाप्तम् ।समाप्तम्
मत्स्यपुराण । पूर्वभाग । अध्याय ६१/४९-५२॥
******************************************
3
देवैः कृतं अगस्त्यस्तोत्रम्
देवा ऊचुः ।
नाहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ १४॥
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः ।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ १५॥
तपसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः ।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ १६॥
अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।
ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥ १७॥
इति महाभारते आरण्यपर्वणि १०१ अध्यायान्तर्गतम्
देवैः कृतं अगस्त्यस्तोत्रम् सम्पूर्णम्
महाभारत । आरण्यकपर्व । अध्याय १०१/१४-१७॥
********************************************
4
अगस्त्यस्तोत्रम्
तानि त्वयैव जप्तानि ताम्रामन्तरुपासता ।
इत्युक्त्वा हर्षसन्तुष्टः तुष्टाव जगतीगुरुः ॥ ५९॥
नमः परमकल्याणनिधये वीतरागिणे ।
लोपामुद्रासमेताय कुम्भोद्भूताय योगिने ॥ ६०॥
पुण्यायै पुण्यभूतायै पुत्र्यै मलयभूभृतः ।
सर्वतीर्थस्वरूपायै ताम्रपर्ण्यै नमो नमः ॥ ६१॥
या पञ्चकृत्यनादेव कुज्जापाञ्चितदुर्दशा ।
तामादिलक्ष्मीं क्षेमाय साक्षान्मोक्षप्रदां नमः ॥ ६२॥
एकत्र श्यामलाकारा एकतः चन्द्रपण्डुरम् ।चन्द्रपण्डुरम्
उमारमापतिं देवं वन्दे हरिहराकृतिम् ॥हरिहराकृतिम् ६३॥
ताम्रां मलयशैलेन्द्रमादिलक्ष्मीं हरिप्रियाम् ।हरिप्रियाम्
लोपामुद्रामगस्त्यं च नित्यमन्तःस्मराम्यहम् ॥नित्यमन्तःस्मराम्यहम् ६४॥ इति ताम्रपर्णीमाहात्म्ये ६२-अध्यायान्तर्गतं
अगस्त्यस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ६२/५९-६४॥
********************************************
5
अगस्त्यनामावलिः
काश्यपः –
शिवशर्मन् महाभाग श्रुणु ते कथयाम्यहम्
यस्य विज्ञानमात्रेण स्वयमायान्ति सम्पदः ॥ ४॥
अश्रोत्रियेषु पापेषु वेदमार्गविरोधिषु ।
न दातव्यमिदं स्तोत्रं मन्त्रराजं महामते ॥ ५॥
ऋषिरिन्द्रस्तथानुष्टुप् छन्दो देवो घटोद्भवः ।
सर्वाभीष्टस्य सिध्यर्थे जपोऽयं विनियोजितः ॥ ६॥
पाटीरशैलकोटीरमणिपीठाय वेधसे ।
मुनये कुम्भजायोद्यदनुकम्पाब्धये नमः ॥ ७॥
लोपामुद्रासमायुक्तं महायोगासनस्थितम् ।
प्रसन्नं तपसां राशिं प्रणुमः कुम्भसम्भवम् ॥८॥
इति ध्यात्वा नमस्कृत्य जपेन्नामावलिं मनुम् ।
अगस्त्यः कुम्भसम्भूतो मैत्रावरुणिरब्धिपः ॥ ९॥
लोपामुद्रापतिश्श्रीमान् वातापील्वलभक्षणः ।
विन्ध्याद्रिमथनो योगी महामलयकेतनः ॥ १०॥
सर्वतीर्थात्मकपदो भक्ताभीष्टफलप्रदः ।
लोपामुद्राभुजाश्लेषहर्षरोमाञ्चमूर्तिमान् ॥लोपामुद्राभुजाश्लेषहर्षरोमाञ्चमूर्तिमान् ११॥
नाम्नां द्वादशकं पुण्यमगस्त्यस्य महात्मनः ।
पठन्त्यपि च शृण्वन्ति ते वै सुकृतिनः परम् ॥१२॥
तेषामभीष्टदानाय भगवान् कुम्भसम्भवः ।
अद्याभ्युद्यत्कराम्भोजो नात्र कार्या विचारणा ॥ १३॥
यशस्यं धन्यमायुष्यं ज्ञानदं भुक्तिमुक्तिदम् ।
नाम्नां स्तोत्रं पठेद्विद्वान् पुरुषार्थाः करे स्थिताः ॥ १४॥
विमलहृदयमुच्चैर्वेदवेदान्तवेद्यं
विधिमुखसुरपूज्यं भूतिरुद्राक्षभाजम् ।
मुनिवरममलाङ्ग्या धर्मपत्न्याऽऽप्तभागं
कलशजमभिरामं नौमि कारुण्यमूर्तिम् ॥१५॥
इत्येतत्परमं गुह्यं मन्त्रं सर्वार्थसाधकम् ।
यतीश्वरादनुप्राप्य प्राप्तवान् परमंसुखम् ॥१६॥
नित्यप्रमोदभूयिष्ठं प्रमोदः प्राप्तसौभगः ।
उपर्युपरि धर्मस्य प्राप्तभूतो न संशयः ॥ १७॥
चन्दनाद्रिसमुद्भूते सत्ये शङ्करलालिते ।
त्वयि स्नास्ये सुप्रसन्ने पाहि मां भवसागरात् ॥१८॥
इति मन्त्रं समुच्चार्य स्नात्वा ताम्रानदीजले ।
पितॄन् न्देवान् ऋषीन् देवान् तर्प्यऋषीन्
तर्प्यनाभिदघ्नजले स्थितः ॥ १९॥
जपेन्मन्त्रमिदं मन्त्री त्रिवारं विजितेन्द्रियः ।
षण्मासादेव सुप्रीतस्तस्य भूयाद्घटोद्भवः ॥ २०॥
शिवशर्मन् त्वया शिवशर्मन् जप्यं प्रत्यहं प्रीतिमिच्छता ।
इति तेन समाख्यातां कथां कलिमलापहाम् ॥२१॥
इति ताम्रपर्णीमाहात्म्ये एकत्रिंशाध्यायान्तर्गतं
अगस्त्यद्वादशनामावलिः
ताम्रपर्णीमाहात्म्य । अध्याय ३१/४-२१॥

No comments:
Post a Comment