Thursday, June 18, 2026

Balagraha Raksha Stotram बालग्रहरक्षास्तोत्रम्

बालग्रह रक्षा स्तोत्रम्


श्री गुरुभ्ये नमः हरी ॐ 

आदाय कृष्णं सन्त्रस्ता यशोदापि द्विजोत्तम ।

गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ॥

बालदोषमपाकरोत् १॥

गोकरीषमुपादाय नन्दगोपोऽपि मस्तके ।

कृष्णस्य प्रददौ रक्षाङ्कुर्वित्येतदुदीरयन् ॥

रक्षाङ्कुर्वित्येतदुदीरयन् २॥

रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।

यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् 

नाभिसमुद्भूतपङ्कजादभवज्जगत् ३॥

येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।

वराहरूपधृग्देवस्स त्वां रक्षतु केशवः ॥ ४॥

नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः ।

नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ५॥

वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।

त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ।

शिरस्ते पातु गोर्विदः कठं रक्षतु केशवः ।

गुह्यं सत्त्वतरं विष्णुर्जघे पादौ जनार्दनः ॥ ७॥

मुखश्चादूडबाहूच मनस्सर्वेन्द्रियाणि च ।

रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ ८॥

शङ्खचक्रगदापाणेश्शङ्खनादहताः क्षयम् ।

गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ ९॥

त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।

हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १०॥

एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।

शायितश्शकटस्याधो बालपर्यङ्किकातले ॥ ११॥ 

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।

श्रीमन्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १२॥

इति श्री बालग्रहरक्षास्तोत्रं सम्पूर्णम् ।

No comments:

Post a Comment