Thursday, June 18, 2026

Garbha Rakshana Stotram गर्भ रक्षण स्तोत्रम्

अथ गर्भरक्षणस्तोत्रम्



श्री गुरुभ्ये नमः हरी ॐ 

एह्यहि भगवन् ब्रह्मन् भगवन् प्रजाकर्तः ब्रह्मन् प्रजाकर्तः प्रजापते ।

प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥गर्भिणीम् १॥

अश्विनौ देवदेवेशौ प्रगृह्णीधन् बलिंप्रगृह्णीधन् बलिं त्विमम् ।

सापत्यं गर्भिणीं सैमं स रक्षतां पूजयानया ॥ २॥

रुद्रेशा एकादश प्रोक्ताः प्रगृह्णन्तु बलिं त्विमम् ।

यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥गर्भिणीम् ३॥

आदित्या द्वादश प्रोक्ताः प्रगृह्णीध्वं बलिं त्विमाम् ।

अस्माकं तेजसां वृद्ध्यै नित्यं रक्षतु गर्भिणीम् ॥गर्भिणीम् ४॥

विनायक गणाध्यक्ष शिवपुत्र महाबल ।

प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥गर्भिणीम् ५ ॥

स्कन्द षण्मुख देवेश पुत्रप्रीतिविवर्धन ।

प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥गर्भिणीम् ६॥

प्रभासः प्रभवश्यामः प्रत्यासौ मारुतोऽनलः ।

ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः ।

प्रगृह्णीष्व बलिं सैमं नित्यं रक्षतु गर्भिणीम् ॥गर्भिणीम् ७॥

पितृदेवि पितृश्रेष्ठे बहुपुत्रि महाबले ।

बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये ।

प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥गर्भिणीम् ८॥

रक्ष रक्ष महादेव भक्तानुग्रहकारक ।

पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥गर्भिणीम् ९॥ 

इति श्री गर्भरक्षणस्तोत्रम् संपूर्णं

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment