Wednesday, June 10, 2026

Govinda Ashtakam गोविन्दाष्टकं स्वामिब्रह्मानन्दकृतम्

गोविन्दाष्टकं स्वामिब्रह्मानन्दकृतम्


श्री गुरुभ्ये नमः हरी ॐ

श्री गणेशाय नमः ॥

चिदानन्दाकारं श्रुतिसरससारं समरसं

निराधाराधारं भवजलधिपारं परगुणम् ।

रमाग्रीवाहारं व्रजवनविहारं हरनुतं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १॥

महाम्भोदिस्थानं स्थिरचरनिदानं दिविजपं

सुधाधारापानं विहगपतियानं यमरतम् ।

मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदम्

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २॥

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैः

महावाक्यैज्ञेयं त्रिभुवनविधेयं विधिपरम् ।

मनोमानामेयं सपदि हृदि नेयं नवतनुं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ३॥

महामायाजालं विमलवनमालं मलहरं

सुबालं गोपालं निहतशिशुपालं शशिमुखम् ।

कलातीतं कालं गतिहतमरालं मुररिपुं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ४॥

नभोबिम्बस्फीतं निगमगणगीतं समगतिं

सुरौघे सम्प्रीतं दितिजविपरीतं पुरिशयम् ।

गिरां पन्थातीतं स्वदितनवनीतं नयकरं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ५॥

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ६॥

रमाकान्तं कान्तं भवभयलयान्तं भवसुखं

दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम् ।

विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ७॥

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं

बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् ।

स्वनिष्ठं धार्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं

सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ८॥

गदापाणेरेतद्दुरितदलनं दुःखशमनं

विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।

स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो

वरं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम् ॥

॥ इति श्री परमहंस स्वामि ब्रह्मानन्द विरचितं

श्री गोविन्दाष्टकं सम्पूर्णम् ॥

No comments:

Post a Comment