Thursday, July 02, 2026

Agastyesha Lingashtakam श्री अगस्त्येशलिङ्गाष्टकम्

श्री अगस्त्येशलिङ्गाष्टकम्

श्री गुरुभ्ये नमः हरी: ॐ

श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल -

त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली -

सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥


भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं

शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम् ।

गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २॥


मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं

मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम् ।

वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३॥


भूम्यापोऽग्निसमीरणा म्बरलसत्सोमार्कयज्वा भिधै

रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।

भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४॥


सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत -

प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम् ।

कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ५॥


श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस-

च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् ।

पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ६॥


 दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान्

चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत् ।

स्वेदोद्भूतविनीलदेहरुचिना वीरेण सन्त्रासितं

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७॥


श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुम्भत्त्रिशूलायुधं

श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः ।

सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८॥


श्रीकोप्पराजकुलवार्धिनिशाकरेण

स्तोत्रं कृतं जगति सुब्बयनामभाजा -

गस्त्येश्वरस्य निजभक्तजनावनस्य

यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९॥


॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment