Saturday, July 04, 2026

Panduranga Stotram 3. श्री पाण्डुरङ्गस्तोत्रम् ३

श्री पाण्डुरङ्गस्तोत्रम् ३
श्री रामनन्दन मयूरेश्वरकृतं
द्रुतविलम्बितवृत्तं
श्री गुरुभ्ये नमः हरी ॐ 
व्रजपते  जपतेऽस्यभयप्रदः सुरसदोरसदो महिमा तव ।
अधनगे घनगेयरुचेऽशनिस्त्वमव माऽभव मामकरोर्वराम्  ॥ १॥

सततमस्तु मयि प्रणतेऽखिलप्रणतवत्सल भव्य यशोनिधे
चरणभक्तिरुदार तव प्रभो रविवराविवरासन मुनिधिः ॥ २॥

इह कलावपि जन्तुमजामिलादधिकमच्युत  नाम यदृच्छया ।
सकृदथाप्यसमप्रमितं नु कं न समलंसमलङ्कुरुते भवान् ॥ ३॥

रुडपि ते शिवकृद्भगवन् द्विषां प्रणमतां किमु युष्मदनुग्रहः ।
परमदुर्लभमीश  सुनिर्भयं पदमिता दमिता भवता खलाः ॥ ४॥

सपदि सम्प्रति भीमरथीतटे स्थितिमुपेत्य जडा अपि जन्तवः ।
इह कृता निजकीर्त्यमृतेन के न भवता भवतापविवर्जिताः  ॥ ५॥

सितसरोरुहसाहमुनेः पितृव्रतवशाज्ञतमःप्रशमोद्यत ।
प्रणतवत्सल विठ्ठल  ते यशः कविशते विशते स्वयमादरात् ॥६॥

श्रुतिनुतस्य जने कृपणे कृपा परमते  रमतेऽपि सदाशिवः ।
तव यशस्यमले विपुले सुधासरसि को रसिको न निमज्जति ॥ ७॥

बत कबीरमुखा यवनाः कृताः शुचितमा निजनामपरास्त्वया ।
भवति पात्रमपि प्रजडः सतां द्युनग ते न गतेरिह को हरे ॥ ८॥

वरदराज मुकुन्द  तुकाभिधो वणिगतिप्रथितः स्तवनैस्तव ।
सकलसाधुमनःपरितोषकृत्कविवरो विवरोहितशुद्धवाक् ॥ ९॥

स्वकरुणां वदसि ध्रुवमन्त्यजः स्मरणकृयदि देवि न तं त्यज ।
पतितपावन नाम च तन्मृताववसरे वस रे वदने श्रुतौ ॥ १०॥

श्रुतकथे भवतः स्वजनापदामगदयागदया क्रियते न सा ।
पितृशतैः करुणा करुणानिधेतनुभवेऽनुभवेन सतामिदम् ॥ ११॥

दिश दयार्णव चक्रमनर्थहृत्स्वशरणाङ्गतविघ्नविनाशकृत् ।
त्वयि मनोऽस्तु मम प्रणतोद्धृतावनलसेऽनलसेवितसत्कथे ॥ १२॥

सुपतिसा अतितापसमाकुला अशरणाः शरणागतवत्सल ।
तव मुकुन्द सकृच्छ्रुतसस्कथाः सुरगुरोरगुरोकसि सस्कृतिम् ॥१३॥

जडसमुद्धरणं प्रथितं कलौ करुणविठ्ठल तेऽद्य महाप्रभोः
अनुभवञ्श्रुतवांश्च सदुक्तितो नयमतो यमतोऽपभयोऽखिलः ॥ १४॥

सदयकोटिशताधिककर्मणे नतसमस्तजनाशनिर्वमणे 
भगवते ननु तुभ्यमहं करोम्यज नमो जनमोहहराभिध! ॥ १५॥

उदितहार्दभरैः कृतकीर्तनैस्त्वमिह विठ्ठल भीमरथीतटे ।
लसदभङ्गगुणैस्तव सद्यशः सुरसिकैरसि कैर्न वशीकृतः ॥ १६॥

श्रुतिरहस्यविदः स्वपदं गता अपि भवन्तमुदारगुणं प्रभुम् ।
परमकारुणिकं सुहृदं परं मुनिजना निजनाथमुपासते ॥ १७॥

स्वपरिरम्भसुखातिशयोचितं प्रणतमाशु करोष्यखिलं जनम् ।
वदान्यगुरो तव सोऽधिकं हनुमतोऽनुमतोऽप्यलसो जडः ॥ १८॥

तव पुमर्थदपुण्ययशःकथाश्रवणविस्मृतदेह इतस्ततः ।
भवति विठ्ठल कोऽपि जनस्तपोवनमना न मनागपि तीर्थधीः ॥ १९॥

य इह दृष्टभवच्चरणाम्बुजानपदमूनमुमेशवृतास्पदात् ।
खलु लभन्त उदारशिरोमणेस्त्वदयि ते दयितेषदपि श्रियः. ॥ २०॥

निजयशोधिकमातरमादरं प्रकटयन्तमुदारगुणं प्रभुम् ।
स्वजनसद्यशसः श्रवणे सदा कृतमहं तमहं शरणं गतः ॥ २१॥

निजयशोमृतसेवनसक्तया सततसात्विकभावंसमृद्धया ।
भगवता भवता बहवः कृताः स्वसभया समया भृशनिर्भयाः ॥ २२॥
(अनुष्टुप छंद:)
प्रियस्तुतेर्भगवतः पाण्डुरङ्गस्य पादयोः ।
मयूरेणार्पिता भक्त्या या स्तुतिः सास्तु तीर्थवाः ॥ २३॥

इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment