श्री टीकाकृत्पादाष्टकम्
श्री गुरुभ्ये नमः हरी ॐ
योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो -
भारान् हृदये भारान् हृदयेबहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः ।
टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥१॥
ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः गौर्वत्
शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः ।
भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥२॥
किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो
दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे ।
भूतानागतवेदिनेति चतुरैः कैश्चिनिजैश्चोदितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥३॥
इत्येवं बहुधा वशीकृतमना गत्वा समीपं गुरो -
नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव ।
श्रीरामं सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥४॥
इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं
साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः ।
व्याजह्रे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥५॥
भोस्त्वं श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात्
तस्यैवेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा ।
आदिष्टो गुरुणा जयेति गदितस्त्र्यष्टादशग्रन्थकृत्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥६॥
तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराट्केकिनो
यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च ।
नानादुर्मतखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे
छिन्द्याच्छीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥७॥
विद्यारण्यजयं शृगालमठगः स्तम्भो यदीयः स्फुटं
वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः ।
वृष्टिग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहात्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥८॥
इत्येतद्गुरुजालबालरचितं भक्त्या पठनष्टकं
कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम्
नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यराट-
नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन् ॥ ९॥
अश्वत्थं च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन्
सद्यः पापविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः ।
यो वा दीनमना अनन्यशरणो भक्त्याऽलसो मादृशः
सिद्धिं याति ततोऽधिकां बुधजनः साक्षात् सुधासाक्षिणी ॥
इति श्री गुर्जालाचार्यकृत श्रीटीकाकृत्पादाष्टकं सम्पूर्णम्
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment