|| इत्यगस्त्योक्तं आदित्य हृदयम् ||
ततोयुद्ध परिश्रांतं समरे चिम्तयास्थितं |
रावणं चाग्रतो दृ ष्ट्वा युद्धाय समुपस्थितम || १ ||
दैवतैश्च समागम्य द्रष्टुं अभ्यागतो रणं
| उपागम्या ब्रवीद्रामं अगस्त्यो भगवान्
ऋषिः || २ ||
येन सर्वानरीन वत्स समरे विजयिष्यसि || ३ ||
आदित्य हृदयं पुण्यं सर्व शत्रु विनाशनं |
जयावहं जपेनित्यं अक्षयं परमं शिवं || ४ ||
सर्व मंगल मांगल्यं सर्व पाप प्रणाशनं |
चिंता शोक प्रशमनं आयुर्वर्धनमुत्तमं || ५ ||
रश्मि मंतं समुद्यंतं देवासुर नमस्कृतं |
रश्मि मंतं समुद्यंतं देवासुर नमस्कृतं |
पूजयस्व विवस्वंतम् भास्करं भुवने श्वरम् || ६ ||
सर्व देवात्मको ह्येषः तेजस्वी रश्मि भावनः
|
एष देवासुर गणानलोकान पाति गभस्तिभिः ||७ ||
एष ब्रह्माश्च विष्णुश्च शिवः स्कंदः
प्रजापतिः |
महेंद्रो धनदः कालो यमः सोमो ह्यपांपतिः || ८ ||
पितरो वसवः साद्ध्या ह्यश्विनौ मरुतोमनुः |
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः || ९ ||
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
| सुवर्ण सदृशो भानुः हिरण्यरेता दिवाकरः || १० ||
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान
| तिमिरोन्मथनः शंभु त्वष्टा मार्तांड अंशुमान् || ११ ||
हिरण्य गर्भः शिशिर स्तपनो भास्करो रविः |
अग्निगर्भोदिते पुत्रः शंखः शिशिरनाशनः ||
१२ ||
व्योमनाथ स्तमो भेदी ऋग्युजुस्साम पारगः |
घन वृष्टिरपां मित्रो विम्ध्यविथि
प्लवंगमः || १३ ||
आतपी मंडली मृत्युः पिंगलः सर्व तापनः |
कविर्विश्वो महातेजा रक्तः सर्व भवोद्भवः
|| १४ ||
नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते || १५ ||
ब्रह्मेशानाच्युतेशाय सुर्यायादित्य वर्चसे
| भास्वते सर्व भक्षाय रौद्राय वपुषे नमः
|| १६ ||
तमोघ्नाय हिमग्नाय शत्रु घनायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतयेनमः || १७ ||
तप्तचामीकराभाय वह्निये विश्व कर्मणे |
नामस्तंमो भिनिघ्न्याय रवये लोकसाक्षिणे
|| १८ ||
नाशयत्येष वैभुतं तथैव सृजति प्रभूः |
पायत्येष पतत्येष वर्षत्येष गभस्तिभिः ||
१९ ||
एष सुप्तेषु जागर्ति भूतेषु परि निष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २० ||
वेदाश्च
क्रतवश्चैव क्रतूनां फलमेवच | यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || २१ ||
पूजयस्वै नमेकाग्रो देव देवं जगत्पतिः |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २२ ||
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय
समुपागतम | सर्व यत्नेन महता वधेतस्य ध्रुतोभवेत || २३ ||
एतच्छ्रु त्वा महातेजा नष्टशोको भवत्तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान ||
२४ ||
आदित्यं प्रेक्ष्य जप्त्वातु परं हर्ष
मवाप्तवान | त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान || २५ ||
इती
श्री अगस्त्य ऋषय प्रोक्तं आदित्य हृदयं संपूर्णं || श्री कृष्णार्पणमस्तु ||
No comments:
Post a Comment