तैत्तिरीयारण्यकम् - 4, प्रपाठकः - 10, अनुवाकः - 41-44
ॐ यश्छन्द'सामृषभो विश्वरू'पः | छन्दोभ्योऽध्यमृता''थ्सम्बभूव' |
स मेन्द्रो' मेधया'' स्पृणोतु | अमृत'स्य देवधार'णो भूयासम् | शरी'रं मे विच'र्षणम् | जिह्वा मे मधु'मत्तमा | कर्णा''भ्यां भूरिविश्रु'वम् | ब्रह्म'णः कोशो'ऽसि मेधया पि'हितः | श्रुतं मे' गोपाय ‖ ॐ शान्तिः शान्तिः शान्तिः' ‖
श्री गुरुभ्ये नमः हरी: ॐ
ॐ सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु ॥ यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासम् ॥
अथ मेधा सूक्तम्
ॐ मेधां मह्यमङ्गिरसो मेधां सप्तऋषयो ददुः ।
मेधामिन्द्रश्चाग्निश्च मेधां धाता ददातु मे ।
मेधां मे वरुणो राजा मेधां देवी सरस्वती ।
मेधां मे अश्विनौ देवावाधत्तां पुष्करस्रजा ।
या मेधा अप्सरस्सु गन्धर्वेषु च यन्मनः ।
दैवी या मानुषी मेधा सा मां आविशतादिमाम् ।
यन्मेनोक्तं तद्रमतां शकेयं यदनुब्रुवे ।
निशामतं निशामय मयि व्रतं सहव्रतेषु भूयासम् ।
ब्रह्मणा संगमेमहि ।
शरीरं मे विचक्षणं वाङ् मेऽमधुमद्दुहा ।
अवृद्धमहं असौ सूर्यो ब्रह्मणानीस्थः श्रुतिर्मे मा प्रहासीत् ।
मेधां देवीं मनसा रेजमानां गन्धर्वजुष्टां प्रतिनो जुषस्व ।
मह्यं मेधां वद मह्यं प्रियं वद मेधावी भूयासमजरा जरिष्णुः ।
सदसस्पतिमद्भुतं प्रियं इन्द्रस्य काम्यम् ।
सनीं मेधामयासिषम् ।
यां मेधां देवगणाः पितरश्चोपासते ।
तया मा मेधयाग्ने मेधाविनं कुरु ।
मेधाव्यहं सुमनाः सुप्रतीकः श्रद्धामनाः सत्यमतिः सुशेवः ।
महायशा धारयिष्णुः प्रवक्ता भूयासमस्यै स्वधया प्रयोगे ।
इति श्री मेधा जनन सूक्तं सम्पूर्णम् ।
श्री कृष्णार्पणमस्तु ।
ॐ मेधादेवी जुषमा'णा न आगा''द्विश्वाची' भद्रा सु'मनस्य मा'ना | त्वया जुष्टा' नुदमा'ना दुरुक्ता''न् बृहद्व'देम विदथे' सुवीरा'' | त्वया जुष्ट' ऋषिर्भ'वति देवि त्वया ब्रह्मा'ऽऽगतश्री'रुत त्वया'' | त्वया जुष्ट'श्चित्रं वि'न्दते वसु सा नो' जुषस्व द्रवि'णो न मेधे ‖ मेधां म इन्द्रो' ददातु मेधां देवी सर'स्वती | मेधां मे' अश्विना'वुभाl-वाध'त्तां पुष्क'रस्रजा | अप्सरासु' च या मेधा गं'धर्वेषु' च यन्मनः' | दैवीं'' मेधा सर'स्वती सा मां'' मेधा सुरभि'र्जुषताग् स्वाहा'' ‖ आमां'' मेधा सुरभि'र्विश्वरू'पा हिर'ण्यवर्णा जग'ती जगम्या | ऊर्ज'स्वती पय'सा पिन्व'माना सा मां'' मेधा सुप्रती'का जुषन्ताम् ‖ मयि' मेधां मयि' प्रजां मय्यग्निस्तेजो' दधातु मयि' मेधां मयि' प्रजां मयीन्द्र' इंद्रियं द'धातु मयि' मेधां मयि' प्रजां मयि सूर्यो भ्राजो' दधातु ‖
ॐ हंस हंसाय' विद्महे' परमहंसाय' धीमहि | तन्नो' हंसः प्रचोदया''त् ‖
ॐ शान्तिः शान्तिः शान्तिः' ‖
ॐ शान्तिः शान्तिः शान्तिः' ‖
No comments:
Post a Comment