Monday, January 11, 2021

*SUKTA TRISUPARNAM त्रिसुपर्णम्



Please listen video of this post on YouTube channel CLICK HERE 

त्रिसुपर्णम् 

ॐ ब्रह्ममेतु माम् | मधुमेतु माम् | ब्रह्ममेव मधुमेतु माम् |
यास्ते सोम प्रजा वत्सोऽभि सो अहम् | दुःष्वप्नहन् दुरुष्षह |
यास्ते सोम प्राणाँस्ताञ्जुहोमि |
त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् | ब्रह्महत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आ सहस्रात् पङ्क्तिं पुनन्ति  || 
ॐ ब्रह्म मेधया | मधु मेधया | ब्रह्ममेव मधुमेधया |
अद्यानो देव सवितः प्रजावत्सावीः सौभगम् | परा दुःष्वप्नियँ सुव | 
विश्वानि देव सवितर्दुरितानिपरासुव | यद्भद्रं तन्म आसुव
मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः | माध्वीर्नः
सन्त्वोषधीः | मधु नक्तमुतोषसि मधुमत्पार्थिवँ
रजः | मधुद्यौरस्तु नः पिता | मधुमान्नो वनस्पतिर्मधुमाँ
अस्तु सूर्यः | माध्वीर्गावो भवन्तु नः |
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् | भ्रूणहत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति | 
आसहस्रात्पङ्क्तिं पुनन्ति ॥
ॐ ब्रह्म मेधवा | मधु मेधवा | ब्रह्ममेव मधु मेधवा |
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् |
श्येनो गृद्धाणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन् 
हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् |
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् | वीरहत्यां वा एते घ्नन्ति | 
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आसहस्रात् पङ्क्तिं पुनन्ति ॥ 
श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment