Sunday, November 26, 2023

*DURGA SANKATA NASHANA दुर्गम संकटनाशन स्तोत्र ॥

Please listen video of this post on YouTube channel CLICK HERE 

दुर्गम संकटनाशन स्तोत्र ॥ 

॥ श्रीकृष्ण उवाच ॥


त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी । त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् । परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ तेजःस्वरूपा परमा भक्तानुग्रहविग्रहा । सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया । सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी । सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् । दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ निद्रा त्वंच दया त्वंच तृष्णा त्वं चात्मनः प्रिया । क्षुत्क्षान्तिः शान्तिरीशा च कान्तिः सृष्टिश्च शास्वती ॥ श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा । सतां सम्पत्स्वरूपा च विपत्तिरसतामिह ॥

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा । शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ देवेभ्यः स्वपदोदात्री धातुर्धात्री कृपामयी । हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ योगनिद्रा योगरूपा योगदात्री च योगिनाम् । सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी । भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे ।

सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ महायुद्धे महामारी दुष्टसंहाररूपिणी । रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा । ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् । मेधास्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी । सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ तथान्ते त्वं महामारी विश्वस्य विश्वपूजिते । कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ दुरत्यया मे माया त्वं यया सम्मोहितं जगत् । यया मुग्धो हि विद्वांश्च मोक्षमार्ग न पश्यति ॥ इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् । पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥

(श्रीब्रह्मवैवर्ते, प्रकृतिखण्ड 66। 7-26)

No comments:

Post a Comment