अथ श्री भार्गवराम कवचम्
श्री गुरुभ्यो नमः
हरिः ॐ
॥ श्रीगणेशाय नमः ॥
श्रीनारायण उवाच ।
कैलासशिखरे रम्ये शंकरं लोकशंकरम् ।
कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥ १ ॥
पार्वत्युवाच ।
देवदेव महादेव देवेश वृषभध्वज ।
त्वत्तः श्रुतान्यशेषाणि जामदग्नस्य साम्प्रतम् ॥ २ ॥
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् ।
न श्रुतं कवचं देव न चोक्तं भवता मम ॥ ३ ॥
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ।
इति पृष्टः स गिरिशो मन्त्रतन्त्राङ्गतत्तववित् ॥ ४ ॥
उवाच प्रहसन्देवीं हिताय जगतामिदम् ।
रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥ ५ ॥
शिव उवाच ।
श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम् ।
धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥ ६ ॥
एकमौपयिकं मन्ये विष्णुवक्षःस्थलालयाम् ।
श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥ ७ ॥
एकातपत्रसहितां य इच्छेत्सागराम्बराम् ।
स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥ ८ ॥
उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम् ।
कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥ ९ ॥
परप्रयुक्तकृत्यादिदोषा भूतादयोऽपि वा ।
प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम् ॥ १० ॥
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्र्च वा ।
जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥ ११ ॥
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् । मूलमन्त्रो क्तविधिना कारयेत्साधकोत्तमः ॥ १२ ॥
अङ्गिरा ऋषिः । बृहती छन्दः । श्रीमञ्जामदग्न्यो देवता ।
उद्दोर्दण्ड चलत्कुठार शिखर स्फार स्फुलिङ्गाङ्कुर व्राता मोघ महास्त्रनाशित जगद्वि द्वेषिवंशाटवीम् ॥
वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननं
वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥ १३ ॥
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् । ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥ १४ ॥
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः । नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥ १५ ॥
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् ।
नासे सुनासः पायान्मे नासिके दासवत्सलः ॥ १६ ॥
रसनां रसरुपोऽव्याद्रसज्ञां रेणुकासुतः ।
अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥ १७ ॥
वक्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ।
चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥ १८ ॥
स्कन्धौ मे स्कन्धविजयी कक्षे मे क्षत्रियान्तकः । भुजौ मे सततं पातु सहस्त्र भुजशासनः ॥ १९ ॥
करौ हितकरः पातु पाणी क्षोणीभरापहः ।
अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥ २० ॥
वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः ।
उरः पुरुषवीरो मे पार्श्र्वौ पातु परश्र्वधी ॥ २१ ॥
उदरस्थजगत्पायादुदरं मम सर्वदा ।
भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥ २२ ॥
लिङ्गं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रभः ।
पाय्वपानं च मे पायात्सायकासनवान्सदा ॥ २३ ॥
त्रिसप्तकृत्वःकुलहा त्रिकं मेऽवतु सर्वदा ।
परमेष्ठ्यवतात्पृष्ठं पिठरं दृढविक्रमः ॥ २४ ॥
ऊरु मेरुसमः पातु जानू मे जगतां पतिः ।
जङ्घे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥ २५ ॥
पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ।
पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥ २६ ॥
परश्र्वधधरः पायाद्रामः पादनखानि मे ।
पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम् ॥ २७ ॥
दक्षिणस्यामपि दिशि दक्षयज्ञान्तकप्रियः ।
पश्र्चिमस्यां सदा पायात्पाश्र्चात्या म्बुधिमर्दनः ॥ २८ ॥
वित्तेशराक्षिताशायां पायान्मां सत्तमार्चितः ।
सर्वतः सर्वजित्पायान्ममाङ्गानि भयात्प्रभुः ॥ २९ ॥
मनो महेन्द्रनिलयश्र्चित्तं मे दृप्तनाशनः ।
बुद्धिं सिद्धार्चितः पायादहंतामनहंकृतिः ॥ ३० ॥
कर्माणि कार्तवीर्यारिर्हिलां हैहयवंशहा ।
हरत्वमोघदृङ्मोहं क्रोधं च क्रोधदर्पहा ॥ ३१ ॥
श्रियं करोतु मे श्रीशः पुष्टिवर्धनः ।
संतानं सततं दद्याद्भृगुसंतानभूरुहः ॥ ३२ ॥
आयूंषि मे वितनुतादार्यः परमपूरुषः ।
आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः ।
श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥ ३३ ॥
ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ।
कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥ ३४ ॥
न नास्तिकाय नादात्रे न चाश्रद्धालये प्रिये ।
देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥ ३५ ॥
नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् ।
नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥ ३६ ॥
देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने ।
गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥ ३७ ॥
अवश्यमेतञ्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ।
मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥ ३८ ॥
वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ।
आसेचितादिव तरोर्फलं नाप्नोति सद्रसम् ? ॥ ३९ ॥
जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्ज्वलैः ।
लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥ ४० ॥
संपूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् ।
हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥ ४१ ॥
एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ।
वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥ ४२ ॥
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ।
कवचेनाभिजप्तेन गच्छञ्जयमवाप्नुयात् ॥ ४३ ॥
श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् ।
तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥ ४४ ॥
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ।
मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥ ४५ ॥
सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः । सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥ ४६ ॥
भूतप्रेतपिशाचाश्र्च रोगाश्र्च विविधाशुभाः ।
दुष्टा नृपास्तस्कराश्र्च व्याघ्रसिंहगजादयः ॥ ४७ ॥
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ।
दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥ ४८ ॥
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगि दुर्लभम् । दारिद्र्य दुःख शमनं संसार भयनाशनम् ॥ ४९ ॥
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् । तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥ ५० ॥
परश्र्वधधनुर्दण्डराजितांसद्वयान्वितम् ।
अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥ ५१ ॥
वामजानुतलन्यस्तवामपाणिकुशेशयम् ।
उन्मज्जज्जलजग्रीवमामीलितविलोचनम् ॥ ५२ ॥
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् ।
सुन्दर सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥ ५३ ॥
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् ।
ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवत्सलम् ॥ ५४ ॥
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः ।
जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥ ५५ ॥
जामदग्न्यो जगन्नेता ब्रह्मण्यो ब्रह्मवत्सलः ।
कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥ ५६ ॥
विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः ।
परश्र्वधधरः शान्तो महेन्द्रकृतकेतनः ॥ ५७ ॥
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः ।
उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्र्वरम् ॥ ५८ ॥
क्षिप्रप्रसादजननैश्र्चतुर्वर्गफलोदयैः ।
हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत् ॥ ५९ ॥
इमानि गौरि नामानि सुगोप्यानि सतामपि ।
ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदयालयः ॥ ६० ॥
त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ।
नारायणः परं ब्रह्म परं तत्त्वं परात्परः ॥ ६१ ॥
भार्गवो धर्मचरणो भर्गरुपः सतां गतिः ।
इति षोडशभिः स्तुत्वा नामभिर्ऋषिपुंगवम् ॥ ६२ ॥
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ।
आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः ॥ ६३ ॥
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ।
दशवारं प्रतिदिनं मासमेकं समाचरेत् ॥ ६४ ॥
स्वप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ।
चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् ॥ ६५ ॥
मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ।
मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम् ॥ ६६ ॥
अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ।
अथवा योगसिद्धिं यो धातुसिद्धिं च वाञ्छति ॥ ६७ ॥
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ।
सर्वाश्र्चौषधयस्तस्य खेचरत्वादिसिद्धिदाः ॥ ६८ ॥
रससिद्धिप्रदाश्र्चापि सिध्यन्त्यस्य न संशयः । महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले ॥ ६९ ॥
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः । प्रस्फुरद्गुणसौवर्णराशीनां जन्मभूः परः ॥ ७० ॥
तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ।
कवचे स्मिन्सकृज्जप्ते मन्त्रावृत्तिसहस्त्रजम् ॥ ७१ ॥
फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ।
अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥ ७२ ॥
जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ।
सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम् ॥ ७३ ॥
मूकोऽपि वाग्मी भवति जपन्नेतद्गुरुर्यथा ।
नित्यं परश्र्वधभृतः कवचस्यास्य धारणात् ॥ ७४ ॥
सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ।
वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् ॥ ७५ ॥
कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ।
इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥ ७६ ॥
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ।
धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् ।
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥ ७७ ॥
॥ इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जन सिद्धिकल्पे त्रयस्त्रिंशत्पटलः ॥
॥ श्रीभार्गव राम कवचं संपूर्णम् ॥
ॐ अग्रतः चतुरो वेदः पृष्टतः सशरं धनुः || इदं ब्राह्मंमिदंक्षात्रं शापादपि शरादपिः ||
॥ श्रीमद्भार्गवार्पणमस्तु ॥
No comments:
Post a Comment