Please listen video of this post on YouTube channel CLICK HERE
श्री कूर्म स्तोत्रम्
श्री गुरुभ्यो नमः
हरि: ॐ
इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कुष्ण विष्णो हृषीकेश तुभ्यंविश्वात्मने नमः ।।१॥
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥ २॥
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥३॥
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥४॥
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥५॥
नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तयेतुभ्यममूर्ताय नमो नमः ॥६॥
नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥७॥
नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥८॥
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥९॥
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥१०॥
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥११॥
इति श्री
No comments:
Post a Comment