Thursday, February 29, 2024

SHRI MATSYA STOTRAM श्री मत्स्य स्तोत्रम्

Please listen video of this post on YouTube channel CLICK HERE 


श्री मत्स्य स्तोत्रम्

श्री गुरुभ्यो नमः

हरी ॐ

नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३॥

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।य थेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४॥

॥ इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment