अथ श्रीसत्यात्मतीर्थश्रीपादविरचिता श्रीसत्यवीरतीर्थस्तुतिः ।।
श्री गुरुभ्यो नमः हरी: ॐ
आदिघट्टाञ्जनेयस्य मूलरामस्य चार्चकम् ।
धर्मसंस्थापनासक्तं सत्यवीरमहं भजे ।।1।।
मारिकावारकं राज्ञे सत्सन्तानप्रदं मुदा ।
स्वाराज्यस्थापकं तप्तचक्रभूषणकारकम् ।।2।।
स्वरूपं वादिराजस्य बोधयन्तं निजान् प्रति ।
निरस्तभृत्यसमयान् शासयन्तं हिताय वै ।।3।।
विद्वत्सभादिव्याजेन विद्वत्पोषकमादरात् ।
विद्वदग्रेसरं शुद्धयतिधर्मप्रपालकम् ।।4।।
सत्पराक्रमसच्छिष्यं सत्यधीरगुरुं बुधम् ।
सुवर्णप्राणसद्भक्तं सत्यवीरमहं भजे ।।5।।
सत्यात्मरचितां पञ्चपद्यीं यः पठतेऽनिशम् ।
ज्ञानभक्तिविरक्त्यादि प्राप्नोतीह न चोदरम् ।।6।।
।। इति श्रीसत्यात्मतीर्थश्रीपादविरचिता श्रीसत्यवीरतीर्थस्तुतिः ।।
श्री कृष्णार्पणमस्तु
No comments:
Post a Comment