Sunday, April 13, 2025

KETU KAVACHAM केतु कवचम्

 अथ श्री केतुकवच स्तोत्रम्



श्री गुरुभ्यो नमः हरी ॐ 

अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः।

अनुष्टप् छन्दः। केतुर्देवता। कं बीजं। नमः शक्तिः।

केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः॥


केतु करालवदनं चित्रवर्णं किरीटिनम्।

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥१॥


चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः।

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥२॥


घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः।

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥३॥


हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः।

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥४॥


ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः।

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥५॥


य इदं कवचं दिव्यं सर्वरोगविनाशनम्।

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ॥६॥


॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥


No comments:

Post a Comment