Saturday, April 12, 2025

DHUMAVATI KAVACHAM माता धूमावति कवचस्तोत्रं ( धूमावत्यष्टकम् )

          अथ माता धूमावति स्तोत्रं ( धूमावत्यष्टकम् )
श्री गुरुभ्यो नमः हरी ॐ 

श्री धूमावती ध्यानम् ॥
विवर्णा चञ्चला दुष्टा दीर्घा च मलिनाम्बरा ।
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा ॥१॥
काकध्वजरथारूढा विलम्बितपयोधरा ।
शूर्पहस्तातिरूक्षाक्षा धूतहस्ता वरान्विता ॥२॥
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा: ।
क्षुत्पिपासार्दि ता ध्येया भयदा कलहास्पदा ॥३॥

अत्युच्चा मलिनाम्बराऽखिलजनोद्वेगावहा दुर्मना
रूक्षाक्षित्रितया विशालदशना सूर्योदरी चञ्चला ।
प्रस्वेदाम्बुचिता क्षुधाकुलतनुः कृष्णाऽतिरूक्षप्रभा
ध्येया मुक्तकचा सदाप्रियकलिर्धूमावती मन्त्रिणा ॥४॥

प्रातर्वा स्यात्कुमारी कुसुमकलिकया जापमाला जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायाम्।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती 
सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान्।।1।।
 
बद्ध्वा खट्वाङ्गकोटौ कपिलवरजटामण्डलम्पद्मयोने:,
कृत्वा दैत्योत्तमाङ्गैस्स्रजमुरसि शिर शेखरन्तार्क्ष्यपक्षै:।
पूर्णं रक्तै्सुराणां यममहिषमहाशृङ्गमादाय पाणौ
पायाद्वो वन्द्यमानप्रलयमुदितया भैरव: कालरात्र्याम्।।2।।

चर्वन्तीमस्थिखण्डं प्रकट कटकटा शब्दसङ्घातमुग्रं कुर्वाणि प्रेतमध्ये कहहकहकहा हास्यमुग्रं कृशांङ्गी ।
नित्यं न्नित्यप्रसक्तां डमरुडिमडिमां स्फारयन्तीं मुखाब्जं पायान्नश्चण्डिकेयं झझमझमझमा जल्पमाना भ्रमन्ती ॥३॥

टण्टण्टण्टण्टटण्टाण्रकटटम टमा नाटघण्टां वहन्तीस्फें 
स्फें स्फें स्फारकारा टकटकितहसा नादसङ्घट्ट भीमा ।लोलम्मुण्डाग्रमाला ललहलहलहा लोललोलाग्रवाचं चर्वन्तीचण्डमुण्डं मटमटमटिते चर्यषन्ती पुनातु ॥४॥

वामे कर्णे मृगाङ्कं पलयपरिगतं दक्षिणे सूर्यबिम्बंकण्ठे नक्षत्रहारं वरविकटजटाजूटके मुण्डमालाम् ।स्कन्धेकृत्वोरगेन्द्रध्वजनिकरयुतं ब्रह्मकङ्कालभारंसंहारे धारयन्ती ममहरतुभयं भद्रदा भद्रकाली ॥५॥

तैलाभ्यक्तैकवेणी त्रपुमयविलसत् कर्णिकाक्रान्तकर्णा लौहेनैकेन कृत्वाचरणनलिनकामात्मनः पादशोभाम् ।दिग्वासा रासभेन ग्रसतिजगदिदं मायया कर्णपूरा वर्षिण्यातिप्रबद्धा ध्वजविततभुजा सासिदेवित्वमेव ॥६॥

सङ्ग्रामे हेतिकृत्वैस्सरुधिरदशनैर्यद्भटा नांशिरोभि र्मालामाबद्‍ध्यमूर्ध्नि ध्वजविततभुजा त्वं श्मशाने प्रविष्टा ।दृष्टा भूतप्रभूतैः पृथुतरजघना बद्धनागेन्द्र काञ्ची
शूलग्रव्य ग्रहस्ता मधुरुधिरसदा ताम्रनेत्रा निशायाम् ॥७॥

दंष्ट्रा रौद्रेमुखेऽस्मिंस्तवविशतिजगद्देवि सर्वं क्षणार्धा त्संसारस्यान्तकाले नररुधिरवशासम्प्लवेभूमधूम्रे ।कालीकापालिकी सा शवशयनतरा योगिनी योगमुद्रा रक्तारुद्धिः सभास्था मरणभयहरा त्वं शिवा चण्डघण्टा ॥८॥

धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारकम् ।
यः पठेत् साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् ॥९॥
महापदि महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा ॥१०॥
पठेत् स्तोत्रमिदं देवि सर्वत्र सिद्धिभाग्भवेत् ।देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥११॥
सिंह व्याघ्रादिकास्सर्वे स्तोत्र स्मरणमात्रतः ।
दूराद्दूरतरं यान्ति किं पुनर्मानुषादयः ॥१२॥
स्तोत्रेणानेन देवेशि किं न सिद्‍ध्यति भूतले ।सर्वशान्तिर्भवेद्देविह्यन्ते निर्वाणतां व्रजेत् ॥१३॥

॥ इति श्री इत्यूर्ध्वाम्नाये धूमावती कवचस्तोत्रं सम्पूर्णम् ॥



No comments:

Post a Comment