श्री गुरुभ्यो नमः हरी: ॐ
(सुदीर्घ नेत्रपंकजं)
सुचारूवक्त्रमण्डलं सुकर्णरत्नकुण्डलम्।
सुचर्चितांग चंदनं नमामि नन्दनन्दनम्॥१॥
सुदीर्घ नेत्रपंकजं शिखिशिखण्डमूर्घजम्।
अनङ्गकोटिमोहनं नमामि नन्दनन्दनम्॥२॥
सुनासिकाग्रमौक्तिकं स्वच्छन्द दन्तपक्तिकम्।
नवाम्बुदाङ्गचिक्कणं नमामि नन्दनन्दनम्॥३॥
करेण वेणुरञ्जितं गतीकरीन्द्रगञ्जितम्
दुकूलपीत शोभनं नमामि नन्दनन्दनम्॥४॥
त्रिभङ्गदेहसुन्दरं नखद्युतिसुधाकरम्।
अमूल्य रत्नभुषणं नमामि नन्दनन्दनम्॥५॥
सुगन्धअङ्गसौरभं मुरोविराजिकौस्तुभम्
स्फुरच्छृीवत्वलाञ्छनं नमामि नन्दनन्दनम्॥६॥
वृन्दावनसुनागरं विलासानुवाससम्।
सुरेन्द्रगं विमोचनं नमामि नन्दनन्दनम्॥७॥
व्रजाङ्गनासुनायकं सदा सुखप्रदायकम्।
जगन्मनः प्रलोभनं नमामि नन्दनन्दनम्॥८॥
श्रीनन्दनन्दनाष्टकं पठेद् य श्रद्धयान्वितः।
तरेभ्दवाब्धिं दुस्तरं लभेत्तदंघ्रियुग्मकम्॥९॥
इति श्री नंदनंदनाष्टकम् संपूर्णम्
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment