Tuesday, April 08, 2025

SHAKTI PEETHA STUTI. श्री शक्तिपीठ स्तुती:

                          श्री शक्तिपीठ स्तुती:
श्री गुरुभ्यो नमः हरी:  ॐ 
ईश्वर उवाच ।
मातः परात्परे देवि सर्वज्ञानमयीश्वरि ।
कथ्यतां मे सर्वपीठशक्तिभैरवदेवताः ॥१॥
देव्युवाच ।
शृणु वत्स प्रवक्ष्यामि दयाल भक्तवत्सल ।
याभिर्विना न सिध्यन्ति जपसाधनसत्क्रियाः ॥२॥
पञ्चाशदेकपीठानि एवं भैरवदेवताः ।
अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च
ममाद्यवपुषो देव हिताय त्वयि कथ्यते ॥३॥
ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ।
कोट्टरी सा महादेव त्रिगुणा या दिगम्बरी ॥४॥
करवीरे त्रिनेत्रं मे देवी महिषमर्दिनी ।
क्रोधीशो भैरवस्तत्र सुगन्धायाञ्च नासिका ॥५॥
देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता ॥६॥
काश्मीरे कण्ठदेशञ्च त्रिसन्ध्येश्वरभैरवः ।
महामाया भगवती गुणातीता वरप्रदा ॥७॥
ज्वालामुख्यां तथा जिह्वा देव उन्मत्तभैरवः ।
अम्बिका सिद्धिदा नाम्नी स्तनं जालन्धरे मम ॥८॥
भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी ॥९॥
हार्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ।
देवता जयदुर्गाख्या नेपाले जानु मे शिव ॥१०॥
कपाली भैरवः श्रीमान् महामाया च देवता ॥११॥
मानसे दक्षहस्तो मे देवी दाक्षायणी हर ।
अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥१२ ||
उत्कले नाभिदेशञ्च विरजाक्षेत्रमुच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः ॥१३॥
गण्डक्यां गण्डपातञ्च तत्र सिद्धिर्न संशयः ।
तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः ॥१४॥
बहुलायां वामबाहुर्बहुलाख्या च देवता ।
भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥१५॥
उज्जयिन्यां कूर्परञ्च माङ्गल्य कपिलाम्बरः
भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका ॥१६॥
चट्टले दक्षबाहुर्मे भैरवञ्चन्द्रशेखरः ।
व्यक्तरूपा भगवती भवानी यत्र देवता ।
विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥१७॥
त्रिपुरायां दक्षपादो देवी त्रिपुरसुन्दरी ।
भैरवस्त्रिपुरेशञ्च सर्वाभीष्टप्रदायकः ॥१८ ||
त्रिस्रोतायां वामपादो भ्रामरी भैरवेश्वरी ॥१९॥
योनिपीठं कामगिरौ कामाख्या तत्र देवता ।
यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ॥२०॥
यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः ।
सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः ॥२१॥
तत्र श्रीभैरवी देवी तत्र च क्षेत्रदेवता ।
प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुराम्बिका ।
वगला कमला तत्र भुवनेशी सधूमिनी ॥२२॥
एतानि परपीठानि शंसन्ति वरभैरवाः ।
एवं तु देवताः सर्वा एवं तु दश भैरवाः ॥२३ ||
सर्वत्र विरला चाहं कामरूपे गृहे गृहे ।
गौरि शिखरमारुह्य पुनर्जन्म न विद्यते ॥२४॥
करतोयां समारम्य यावद्दिक्करवासिनीम् ।
शतयोजनविस्तीर्णं त्रिकोणं सर्वसिद्धिदम् ।
देवा मरणमिच्छन्ति किं पुनर्मानवादयः ॥२५॥
क्षीरग्रामे महामाया भैरवः क्षीरखण्डकः ।
युगद्या सा महामाया दक्षाङ्गुष्ठं पदो मम ॥२६॥
नकुलीशः कालीपीठे दक्षपादाङ्गुली च मे ।
सर्वसिद्धिकरी देवी कालिका तत्र देवता ॥२७॥
अङ्गुलीवृन्दं हस्तस्य प्रयागे ललिता भवः ।
जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः ॥२८॥
भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः
देवता विमला नाम्नी संवर्त्तो भैरवस्तथा ॥२९॥
वाराणस्यां विशालाक्षी देवता कालभैरवः ।
मणिकर्णीति विख्याता कुण्डलं च मम श्रुतेः ॥३०॥
कन्याश्रमे च पृष्ठं मे निमिषो भैरवस्तथा ।
सर्वाणी देवता तत्र कुरुक्षेत्रे च गुल्फतः ॥३१॥
स्थाणुर्नाम्ना च सावित्री देवता मणिवेदके ।
मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः ॥३२॥
श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता ।
भैरवः सम्बरानन्दो देशो देशो व्यवस्थितः ॥३३॥
काञ्चीदेशो च कङ्कालो भैरवो रुरुनामकः ।
देवता देवगर्भाख्या नितम्बः कालमाधवे ॥३४॥
भैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा ।
दृष्टा दृष्टा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् ॥३५॥
कुजवारे भूततिथौ निशार्द्धे यस्तु साधकः ।
नत्वा प्रदक्षिणीकृत्य मन्त्रसिद्धिमवाप्नुयात् ॥३६॥
शोणाख्या भद्रसेनस्तु नर्मदाख्ये नितम्बकः ।
रामगिरौ स्तनान्यञ्च शिवानी चण्डभैरवः ॥३७॥
वृन्दावने केशजालमुमा नाम्नी च देवता ।
भूतेशो भैरवस्तत्र सर्वसिद्धिप्रदायकः ॥३८॥
संहाराख्य ऊर्द्धदन्तो देवीऽनले नारायणी श्रुचौ ।
अधोदन्तो महारुद्रो वाराही पञ्चसागरे ॥३९॥
करतोयातटे कर्णे वामे वामनभैरवः ।
अपर्णा देवता यत्र ब्रह्मरूपाकरोद्भवा ॥४०॥
श्रीपर्वते दक्षगुल्फस्तत्र श्रीसुन्दरी परा ।
सर्वसिद्धीश्वरी सर्वा सुन्दरानन्दभैरवः ॥४१॥
कपालिनी भीमरूपा वामगुल्फो विभाषके ।
भैरवश्च महादेव सर्वानन्दः शुभप्रदः ॥४२॥
उदरञ्च प्रभासे मे चन्द्रभागा यशस्विनी ।
वक्रतुण्डो भैरव ऊर्ध्वोष्ठो भैरवपर्वते ॥४३ ||
अवन्ती च महादेवी लम्बकर्णस्तु भैरवः ॥४४॥
चिवुके भ्रामरी देवी विकृताक्षो जनस्थने ।
गण्डो गोदावरीतीरे विश्वेशी विश्वमातृका ॥४५॥
दण्डपाणिभैरवस्तु वामगण्डे तु राकिणी ।
भैरवो वत्सनाभस्तु तत्र सिद्धिर्न संशयः ॥४६॥
रत्नावल्यां दक्षस्कन्धः कुमारी भैरवः शिवः ।
मिथिलायामुमा देवी वामस्कन्धो महोदरः ॥४७॥
नलाहाट्यां नलापातो योगीशो भैरवस्तथा ।
तत्र सा कालिका देवी सर्वसिद्धिप्रदायिका ॥४८॥
कालीघाटे मुण्डपातः क्रोधीशो भैरवस्तथा ।
देवता जयदुर्गाख्या नानाभोगप्रदायिनी ॥४९॥
वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः ।
नदी पापहरा तत्र देवी महिषमर्दिनी ॥५०॥
यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी ।
चण्डश्च भैरवो यत्र तत्र सिद्धिर्न संशय ॥५१॥
अट्टहासे चोष्ठपातो देवी सा फुल्लरा स्मृता ।
विश्वेशो भैरवस्तत्र सर्वाभीष्टप्रदायकः ॥५२॥
हारपातो नन्दिपुरे भैरवो नन्दिकेश्वरः ।
नन्दिनी सा महादेवी तत्र सिद्धिमवाप्नुयात् ॥५३॥
लङ्कायां नूपुरञ्चैव भैरवो राक्षसेश्वरः ।
इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा ॥५४॥
विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् ।
भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता ॥५५॥
एतास्ते कथिताः पुत्र पीठनाथाधिदेवताः ।
क्षेत्राधिपं विना देव पूजयेत् पीठदेवताम् ।
भैरवैर्ह्रयते सर्वं जपपूजादिसाधनम् ॥५६॥
अज्ञात्वा भैरवं पीठे पीठशक्तितञ्च शङ्कर ।
प्राणनाथ न सिध्येत्तु कल्पकोटि जपादिभिः ॥५७॥
न देयं परशिष्याय निन्दकाय दुरात्मने ।
शठाय क्रूरकार्याय दत्वा मृत्युमवाप्नुयात् ।
दद्याच्छान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये ॥५८॥

इति श्री शक्ति पीठ स्तुती संपूर्णं

श्री कृष्णार्पणमस्तु 


No comments:

Post a Comment