. श्री ध्रुव कृत भगवत् स्तुति:
श्री गुरुभ्यो नमः हरी: ॐ
ध्रुव उवाच
योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥१॥
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरूगुणया महदाधशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद् विभासि ॥२॥
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।
तस्यापवग्र्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥३॥
नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य
मिच्छन्ति यत्स्पर्शजं निरयेऽपि न्रणाम् ॥४॥
या निर्व्रतिस्तनुभृतां तव पादपद्मध्यानाद्
भवज्जनकथाश्रवणेन वा स्यात् सा ।
ब्रह्माणि स्वमहिमन्यपि नाथ मा सभूत् किं
त्वन्तकासिलुलितात् पततां विमानात् ॥५॥
भक्तिं मुहु: प्रवहतां त्वयि मे प्रसंगो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बण मुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्त: ॥६॥
ते न स्मरन्त्यतितरां प्रियमीश मत्र्यं
ये चान्वद: सुतसुह्र्दग्रहवित्तदारा: ।
ये त्वब्जनाभ भवदीय पदारविन्द
सौगन्ध्यलुब्धह्रदयेषु कृतप्रसंगा: ॥७॥
तिर्यंगद्विजसरीसृपदेवदैत्यमत्र्यादिभि:
परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाधनेकं
नात: परं परम वेद्मि न यत्र वाद: ॥८॥
कल्पान्त एतदखिलं जठरेण ग्रहणन्
शेते पुमान् स्वदृगनन्तसखस्तदंके ।
यन्नाभिसिन्धुरूह काञ्चनलोक पद्मगर्भे
धुमान् भगवते प्रणतोऽस्मि तस्मै ॥९॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ
आदिपुरुषो भगवांस्त्र्यधीश: ।
यद् बुद्धयवस्थिति मखण्डितया स्वदृष्टया
दृष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥१०॥
यस्मिन् विरुद्धगतयो ह्रानिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूव्र्यात् ।
तद् ब्रह्म विश्वभवमेकमनन्त
माधमानन्दमात्रमविकारमहं प्रपधे ॥११॥
सत्याऽऽशिषो हि भगवंस्तव पादपद्ममा
शीस्तथानुभजत: पुरुषार्थमूर्ते: ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥१२॥
इति श्री ध्रुव कृत भगवत् स्तुती स्तोत्रम् संपूर्णं
श्री कृष्णार्पणमस्तु

No comments:
Post a Comment