Thursday, September 18, 2025

Garuda Ashtakam श्री गरुड दण्डकम्

                            श्री गरुड दण्डकम् 

श्री गुरुभ्यो नमः हरी: ॐ 
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्तचार्यवर्यो मे सन्निधत्ताम् सदाहृदि ॥
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।
श्रुतिसिन्धु सुधोत्पादमन्दराय गरुत्मते ॥ १॥

गरुडमखिलवेदनीडाधिरूढम् द्विषत्पीडनोत्कण्ठिता कुण्ठवैकुण्ठपीठीकृत 
स्कन्धमीडे स्वनीडागतिप्रीतरुद्रा सुकीर्तिस्तनाभोगगाढोपगूढ
स्फुरत्कण्टकव्रात वेधव्यथावेपमान द्विजिह्वाधिपाकल्पविष्फार्यमाण
स्फटावाटिका रत्नरोचिश्छटा राजिनीराजितं कान्तिकल्लोलिनीराजितम् ॥ २॥

जयगरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन्
दिवौकस्पतिक्षिप्तदम्भोळिधाराकिणाकल्प कल्पान्तवातूल कल्पोदयानल्प वीरायितोद्यच्चमत्कार दैत्यारि जैत्रध्वजारोहनिर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्च काधीश सत्यादिमूर्ते न कश्चित्समस्ते नमस्ते पुनस्ते नमः ॥ ३॥

नम इदमजहत्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेलपाथोधि
वीचीचपेटाहतागाधपाताळभाङ्कारसंक्रुद्ध
नागेन्द्रपीडासृणीभाव-भास्वन्नखश्रेणये चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रय तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ ४॥

मनुरनुगत पक्षिवक्त्र स्फुरत्तारकस्तावकश्चित्र भानुप्रियाशेखरस्त्रायतां नस्त्रिवर्गापवर्ग प्रसूतिः परव्योमधामन् वलद्वेषिदर्पज्वल द्वालखिल्य प्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे म्हानन्ददोग्ध्रीं दधीथा मुधाकामहीना महीनामहीनान्तक ॥ ५॥

षट्त्रिंशद्गणचरणो नरपरिपाटीनवीनगुम्भगणः ।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम् ॥ ६॥
विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता ।
गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥ ७॥

कवितार्किकसिंहाय कल्यणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

इति श्रीवेदान्तदेशिकविरचितः गरुडदण्डकः सम्पूर्णः ।

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment