Saturday, September 20, 2025

*Rinaharta Ganesh Stotra ऋणहर्ता श्री गणेश स्तोत्रं

ऋणहर्ता श्री गणेश स्तोत्रम्

श्री गुरुभ्यो नमः हरी: ॐ 


॥  अथ ध्यानम् ॥

ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं

लम्बोदरं  पद्म-दले निविष्टम्।

ब्रह्मादि-देवैः परि-सेव्यमानं

सिद्धैर्युतं तं प्रणामि देवम् ॥


॥ मूल-पाठ ॥

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 1


त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 2


हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 3


महिषस्य वधे देव्या गण-नाथ: प्रपुजित: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 4


तारकस्य वधात् पूर्वं कुमारेण प्रपूजित: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 5


भास्करेण गणेशो हि पूजितश्छवि-सिद्धए । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 6


शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 7


पालनाय च तपसां विश्वामित्रेण पूजित: । 

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ 8


इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं, 

एक-वारं पठेन्नित्यं वर्षमेकं सामहित: । 

दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत् ॥


इति श्री ऋणहर्ता श्री गणेश स्तोत्रं संपूर्णं 

श्री कृष्णार्पणमस्तु

No comments:

Post a Comment