ಅಥ ಶ್ರೀ ಭವಾನ್ಯಷ್ಟಕಮ್ -
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ*
ನ ತಾತೋ ನ ಮಾತಾ ನ ಬಂಧುರ್ನ ದಾತಾ
ನ ಪುತ್ರೋ ನ ಪುತ್ರೀ ನ ಭೃತ್ಯೋ ನ ಭರ್ತಾ
ನ ಜಾಯಾ ನ ವಿದ್ಯಾ ನ ವೃತ್ತಿರ್ಮಮೈವ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 1 ॥
ಭವಾಬ್ಧಾವಪಾರೇ ಮಹಾದುಃಖಭೀರು
ಪಪಾತ ಪ್ರಕಾಮೀ ಪ್ರಲೋಭೀ ಪ್ರಮತ್ತಃ
ಕುಸಂಸಾರಪಾಶಪ್ರಬದ್ಧಃ ಸದಾಹಂ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 2 ॥
ನ ಜಾನಾಮಿ ದಾನಂ ನ ಚ ಧ್ಯಾನಯೋಗಂ
ನ ಜಾನಾಮಿ ತಂತ್ರಂ ನ ಚ ಸ್ತೋತ್ರಮಂತ್ರಮ್
ನ ಜಾನಾಮಿ ಪೂಜಾಂ ನ ಚ ನ್ಯಾಸಯೋಗಂ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 3 ॥
ನ ಜಾನಾಮಿ ಪುಣ್ಯಂ ನ ಜಾನಾಮಿ ತೀರ್ಥಂ
ನ ಜಾನಾಮಿ ಮುಕ್ತಿಂ ಲಯಂ ವಾ ಕದಾಚಿತ್
ನ ಜಾನಾಮಿ ಭಕ್ತಿಂ ವ್ರತಂ ವಾಪಿ ಮಾತಃ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 4 ॥
ಕುಕರ್ಮೀ ಕುಸಂಗೀ ಕುಬುದ್ಧಿಃ ಕುದಾಸಃ
ಕುಲಾಚಾರಹೀನಃ ಕದಾಚಾರಲೀನಃ
ಕುದೃಷ್ಟಿಃ ಕುವಾಕ್ಯಪ್ರಬಂಧಃ ಸದಾಹಂ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 5 ॥
ಪ್ರಜೇಶಂ ರಮೇಶಂ ಮಹೇಶಂ ಸುರೇಶಂ
ದಿನೇಶಂ ನಿಶೀಥೇಶ್ವರಂ ವಾ ಕದಾಚಿತ್
ನ ಜಾನಾಮಿ ಚಾನ್ಯತ್ ಸದಾಹಂ ಶರಣ್ಯೇ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 6 ॥
ವಿವಾದೇ ವಿಷಾದೇ ಪ್ರಮಾದೇ ಪ್ರವಾಸೇ
ಜಲೇ ಚಾನಲೇ ಪರ್ವತೇ ಶತ್ರುಮಧ್ಯೇ
ಅರಣ್ಯೇ ಶರಣ್ಯೇ ಸದಾ ಮಾಂ ಪ್ರಪಾಹಿ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 7 ॥
ಅನಾಥೋ ದರಿದ್ರೋ ಜರಾರೋಗಯುಕ್ತೋ
ಮಹಾಕ್ಷೀಣದೀನಃ ಸದಾ ಜಾಡ್ಯವಕ್ತ್ರಃ
ವಿಪತ್ತೌ ಪ್ರವಿಷ್ಟಃ ಪ್ರನಷ್ಟಃ ಸದಾಹಂ
ಗತಿಸ್ತ್ವಂ ಗತಿಸ್ತ್ವಂ ತ್ವಮೇಕಾ ಭವಾನಿ ॥ 8 ॥
॥ ಇತಿ ಶ್ರೀಮದಾದಿ ಶಂಕರಾಚಾರ್ಯ ವಿರಚಿತಂ ಭವಾನ್ಯಷ್ಟಕಂ ಸಂಪೂರ್ಣಮ್ ॥ ಶ್ರೀ ಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು
श्री गुरुभ्यो नमः हरी: ॐ
न तातो न माता न बंधुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 1 ॥
भवाब्धावपारे महादुःखभीरु
पपात प्रकामी प्रलोभी प्रमत्तः
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 2 ॥
न जानामि दानं न च ध्यानयोगं
न जानामि तंत्रं न च स्तोत्रमंत्रम्
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 3 ॥
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 4 ॥
कुकर्मी कुसंगी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः
कुदृष्टिः कुवाक्यप्रबंधः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 5 ॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित्
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 6 ॥
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 7 ॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 8 ॥
॥ इति श्रीमदादि शंकराचार्य विरचितं भवान्यष्टकं संपूर्णम्
न पुत्रो न पुत्री न भृत्यो न भर्ता
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 1 ॥
भवाब्धावपारे महादुःखभीरु
पपात प्रकामी प्रलोभी प्रमत्तः
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 2 ॥
न जानामि दानं न च ध्यानयोगं
न जानामि तंत्रं न च स्तोत्रमंत्रम्
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 3 ॥
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 4 ॥
कुकर्मी कुसंगी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः
कुदृष्टिः कुवाक्यप्रबंधः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 5 ॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित्
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 6 ॥
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 7 ॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 8 ॥
॥ इति श्रीमदादि शंकराचार्य विरचितं भवान्यष्टकं संपूर्णम्
॥ श्री कृष्णार्पणमस्तु

No comments:
Post a Comment