Saturday, March 14, 2026

SHAKTEYA SUTRA. शाक्तेयसूत्राणि भगवानगस्त्यः विरचिता ``अथातः शक्तिजिज्ञासा''

अथ शक्तिसूत्रव्याख्या 

भगवदगस्त्य विरचितानि

शाक्तेयसूत्राणि रचयितुकामो भगवानगस्त्यः प्रथमं तावत् ``अथातः शक्तिजिज्ञासा'' इति सूत्रमारब्धवान् ।  


श्री गुरुभ्यो नमः हरी: ॐ 

इह खलु अल्पायुरल्पवीर्यमन्दबुद्धिमतः अविद्यासागरादात्मानमुद्धर्त्तुं सामर्थ्याभावेनाशक्नुवतो लोकानालोक्य कृपयाज्ञानगाढान्धकारप्रदीपानि (?)  शाक्तेयसूत्राणि रचयितुकामो भगवान् अगस्त्यः प्रथमं तावत् ``अथातः शक्तिजिज्ञासा'' इति सूत्रमारब्धवान् ।

अत्र श्रुतिसमानार्थत्वात् कर्त्तव्येति । अथशब्द उच्चारणमात्रेण मङ्गलार्थः, अर्थस्त्वानन्तर्यम् । तथा च-साधनचतुष्टयसंपत्त्यनन्तरम् । अतः धर्मादीनां क्रमशश्चैव आधिक्यात् (?), यागादीनां चिरकालप्रयाससाध्यत्वेऽपि फलं प्रति संशयरूपत्वात्, वेदान्ते तावत् ``आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' इत्यत्र प्रथमं तावत् दर्शनमनूद्या (?) श्रोतव्यादीनां बहुविधतर्कसाध्यत्वेन बालानामबोधकत्वादिति हेतोः शक्तिजिज्ञासा कर्त्तव्येति ॥


शक्तेर्जिज्ञासा शक्तिजिज्ञासा । का नाम शक्तिः । शल्कृ शक्तावित्यस्माद् धातोः क्तिन्प्रत्यये शक्तिरिति । सर्वभूतानामन्तर्यामितया प्रकाशयितुं शक्नोति इत्यर्थः । तथा च सूत्रम् ``यां विना न गतिर्गम्यते'' । ज्ञातुमिच्छा जिज्ञासा । अथ सुखसाध्यतया अनायासेन ज्ञानमुत्पाद्यत इत्यर्थः । तथा च श्रुतिः ``अन्धं तमः प्रविशन्ति येऽविद्यामुपासते'' इति । एवमनुबन्धचतुष्टयं निरूपितम् ॥ १॥


ननु वेदान्ताद्यनन्तसूत्राणां विद्यमानत्वात् किमर्थमपूर्वशक्तिरित्याक्षिप्य प्रति(वि)धत्ते ``यत्कर्त्री'' इति । ननु वेदान्ते ब्रह्मेति, साङ्ख्यादिषु चित्तमिति, सगुणेष्वीश्वर इति यदुच्यते तदेव शक्तिरित्यस्मिन् प्रतिपाद्यते । यत्पुंस्त्वेन (?) जगजन्मादिकारणत्वमिति शास्त्रादिषु निरूपितं सैव कर्त्रीं । जगतः इति शेषः । इत्थम् - एकैव सत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्ण्वादिरूपतां भजते । तथा च सूत्रम् - ``यश्चै(च्चै) तन्यभेदे प्रमाणम्'' इति । श्रुतिश्च ``परास्य शक्तिर्विविधैव श्रूयते'' इत्यादि ॥ २॥


नन्वेतादृशस्वल्पाया (?) मनोयोनित्वात् मनसः कृतकत्वेनानित्यत्वात् काष्ठाग्निवन्नाशिनः असत्वे सर्वज्ञत्वं न भवतीत्याशङ्क्याह भगवान् अगस्त्यः ``यदजा'' । यत्कारणमजा उत्पत्तिमन्न, यद्विलासात् सृष्टयादिरिति । तस्मात् सर्वज्ञरूप्येव कारणम् । ननु तादृकरूपाप्रसिद्धा न जिज्ञासितव्या, यद्यप्रसिद्धा नैव शक्त्या (? शक्या) जिज्ञासितुम् । इत्याक्षिप्य प्रसिद्धैव । कुतः । अहमस्मीत्यात्मप्रत्यक्षविषयत्वात् । आत्मैव तादृशस्वरूपाप्रसिद्धापि (?)  देहमात्रमात्मेति, मनोमात्रं नात्मेति (?) संशयादिवारणाय तादृशरूपजिज्ञासा अवश्यं कर्त्तव्या । ननु तादृशस्य किं प्रमाणमित्याकाङ्क्षायां ``मनोयोनित्वात्᳚ मनः योनिः कारणम् प्रमाणं तस्य भावः तत्त्वात् । श्रुतिः - ``मनस्येवेदमाप्तव्यं नेह नानास्ति किञ्चन'' । ``यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह'' इति श्रुतिस्तु अपक्व(?)मुपलक्षणम् । मनसीति निश्चित्याप्तव्यम् - इत्यभिप्रायः ॥ ३॥


ननु मनसा निश्चितत्वविषये औपनिषत्साङ्ख्ययोगादीनां वैयर्थ्यापत्तिरिति निश्चित्याह । ``नान्तरायोऽत्र'' । अन्तरे मध्ये ईयते प्राप्यते इति । अत्र मनोनिश्चयविषये मध्ये प्राप्य शास्त्रं न किञ्चिदपि । इतरेषां बहुप्रयासत्वेन एतेनैवालमित्यभिप्रायः ॥ ४॥


नन्वीद्गशमाहात्म्यं कुतः स्यादत आह- ``तत् सान्निध्यात्'' । तस्मिन् सान्निध्यं तत्स्थत्वं तस्मात् । विकलन (?) मात्रेणानितरापेक्षं ज्ञानमुत्पद्यत इति यावत् ॥ ५॥


ननु तत्-स्थत्वात् अणुत्वापत्तिरित्याशङ्क्य ``तत्कल्पकत्वमौपाधिकम्'' इति । तत्कल्पकत्वमणुत्वादिनिर्द्देशकत्वमौपाधिकम् उपाधिवशान्नेतव्यम् । कुतः । सर्वव्यापित्वात् ॥ ६॥


अत्र शङ्कते । सर्वव्यापित्वेन प्रकाशकत्वमुपपद्यते । कुतः । ``समानधर्मत्वात्'' । समाना धर्माः चैतन्यव्याप्यत्वादयः । तेषां भावः तस्मात् तत्स्थत्वं नोपपद्यते ॥ ७॥


तस्याहोभिर्वाधिकरणवति स्वप्रकाशकत्वमुपपद्यते वा । भास्यते अनेनेति भासः । प्रतिभासे भवं प्रातिभासिकम् । स्वप्रकाशयोग्यं तच्चैतन्यमप्यादर्शमुखवत् बुद्धौ बोधयितव्यम् । तर्हि ``यदोतं यत् प्रोतम्'' इति सूत्रस्य वैयर्थ्यापत्तेः । वस्तुतः आदर्शने असत्ता (? असत्त्वा) दिति चेत् । न । साभ्रनक्षत्रस्य अपरिच्छिन्नस्य जलादौ विद्यमानत्वात् । अत्राह ॥ ८॥


यद्येवमतोऽस्य अज्ञानमेव बन्धः जीवस्योपजीव्यते, बन्धस्य मिथ्यात्वात् । ततश्चोत्तरत्र सूत्रकार एव वक्ष्यति । तथा च मनोमात्रकलन (?) एव सर्वं न तु किञ्चिदत्रास्ति । कुतः । ``नेह नाना'' इति श्रुतेः ॥ ९॥


यदारोपस्य यत्प्रतीतेः । तथा च सूत्रम्- ``यां विना न गतिर्गम्यते'' । यद् रूपादीनामध्यासादिना प्रतीयमानमेव । तथा च स्मरन्ति ``अस्ति भाति प्रियं रूपं नाम चैक्यं विभेदतः । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततोऽद्वयम्'' ॥ इत्यादिवाक्याञ्च ॥ १०॥


तच्छक्तिमयेन प्रतिभाव्यमानं जगदधिष्ठानस्य कारणस्य लिङ्गं गमकम् । ननु एताद्गशमोहनमात्रेण जगद्रूपेण किमर्थं परिणमिता, परिणामिन्याः यतत्वात् (१) परिणामस्यापि तत्त्वात् । अनेकेषां सत्यत्वे कथं ज्ञानेन व्यावर्त्तेत । बाढम् । व्यावहारिकपारमार्थिकभेदेनाङ्गी कृतत्वात् ॥ ११॥


ननु कथं ज्ञेयः नानादीनां विद्यमानत्वात् । किञ्च नानादिष्वाध्यारोपितत्वात । तथा च सूत्राणि - ``तत् कामित्वात्'' (इत्य्) आरभ्य ``मन्वानास्तरन्ति संसारम्'' इत्यन्तानि गमकानि । साङ्ख्यकृद्भिश्च ``नानोपाधिषु यन्नानारूपं भात्यनलार्कवत् । तत् समं सर्वभूतेषु'' इत्यादि ॥ १२॥


ननु सर्वेषां तद्व्याप्यत्वेन ``सर्वं प्रकृतिमयम्'' इति सूत्रेण सकलजनानां व्यावहारिकत्वेनैव सिद्धे सर्वेषां मोक्षापत्तिः । अत आह । तच व्यापकत्वञ्च । कालिकं कालसम्बन्धान्नेतव्यम् । ननु (?)  सदा विद्यते सर्वेषां सततयथानेन (?) । तथा च सर्वं तद्रूपेण निश्चेतव्यं, न तु स्वरूपेण ॥ १३॥


अखण्डेषु समस्तेषु उपाधिः सम्बन्धः यस्याः । समत्वात् । श्रुत्या च गम्यते ॥ १४॥


नु पापपुण्यतारतम्येन स्वर्गनरकाद्युच्चावचेषु प्रविशमानाः तत्रस्थानामपेक्षयानुभवन्ति । तस्मान्न सर्वनियन्तृत्वम् इति चेन्न । यामेव भूतानि विशन्ति प्रविशन्ति तद्रूपेण अधिकारादित्यर्थः । तद्विषयमुत्तरत्र वक्ष्यति ॥ १५॥


ननु तद्रूपत्वं कथं सम्भवति, एकस्य सर्वत्रान्वयासम्भवादित्यत आह ``यदोतं यत्प्रोतम्'' इति । येन कारणेन ओतं व्याप्तं येन जगता प्रोतं तन्तुपटवत् । इत्थं कारणं विहाय न कदापि वर्त्तते । कार्यं नाम कारणानन्यत्वम् । कारणसत्ताव्यतिरिक्तसत्ताशून्यत्वमिति यावत् । तथा च सर्वे तद्रूपा इति नोक्तदोषः ॥ १६॥


नन्वाकाशवत् तद्व्यापकत्वं कथमत आह- ``तद्विष्णुत्वात्'' । तस्य कारणस्य विष्णुत्वात् व्यापकत्वात् । विप्लू व्याप्ताविति । उणादिना ``णु'' प्रत्ययः । तथा च आकाशवत् सर्वगतस्य नित्यः । तथा च सूत्रमपि ॥ १७॥


ननु जलस्थलनभओकसामनेकेषामपि एकयाधिष्ठातृत्वं न भाव्यते । अत आह- ``ततो जगन्ति कियन्ति'' । तत एव कियन्ति, परमाणूनारभ्य भूतपर्यन्तानि जगन्ति उत्पद्यन्ते । तथा चैकशास्त्रकर्त्ता (१) तत्सर्वज्ञानं यथा भवति तीर्थतरः प्रभूतः तद्वदत्रापि योजनीयम् । कुतः । तस्या एव मूलत्वात् कारणत्वात् । श्रुतिश्च ``सु (?) मृत्युरासीत्'' इत्यादि । तत् प्रथमत आकाशादिरूपेण परिणमितेत्यर्थः ॥ १८॥


ननु एकस्यानेकरूपत्वं कथमुपपद्यते । परिणामोपलव्धेः । परिणामस्य अनेक परिणमितस्योपलब्धेर्दृष्टत्वात् । लोके च मृदादिषु । श्रुतिश्च ``तत् स्रष्टा'' इत्यादिः । ब्रह्मसूत्रेऽपि ``अंशो । नानाव्यपदेशाद्'' इत्यादि । ननु परिणामित्वव्यपदेशात् सर्वाकारं कारणमासीत् । सर्वज्ञानेन विषयादिज्ञानानां प्रयोजनत्वमेव । तथा च परिणामस्य अनित्यत्वस्य दृष्टत्वात् ``एष जनो अमृतः'' इत्यादिश्रुतिकोपोपलब्धिप्रसङ्ग इति चेन्न । नानास्वरूपेण स्थितत्वेऽपि एकत्वं कूटस्थत्वम् अविरुद्धम् । न दोषः । दृष्टत्वात् । घटादिषु मृत्त्वेनैवैकत्वम् । अत्र परिणामत्वञ्च विवृत्तत्वं (?)  विषमसत्ताककार्यत्वम् । वाचारम्भणश्रुतिश्च कारणस्यैव सत्यत्वं ब्रवीति ॥ १९॥


इति श्री भगवदगस्त्य विरचितानि शक्तिसूत्रव्याख्यानं संपूर्णं.

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment