Saturday, March 14, 2026

SARASWATI STOTRAM श्री सरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्

श्री सरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम् 



श्रीगणेशाय नमः ।

श्री गुरुभ्यो नमः हरी: ॐ 

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।


या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा वन्दिता

सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ १॥


दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना

हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।


भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥


सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।

विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ३॥


सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।

घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ४॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ५॥


सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।

शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ ६॥


नित्यानन्दे निराधारे निष्कलायै नमो नमः ।

विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ ७॥


शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।

शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ ८॥


मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः ।

मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ ९॥


मनोमयि महायोगे वागीश्वरि नमो नमः ।

वाण्यै वरदहस्तायै वरदायै नमो नमः ॥ १०॥


वेद्यायै वेदरूपायै वेदान्तायै नमो नमः ।

गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ ११॥


सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।

सम्पन्नायै कुमार्यै च सर्वज्ञायै नमो नमः ॥ १२॥


योगरूपे रमादेव्यै योगानन्दे नमो नमः ।

दिव्यज्ञायै त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ १३॥


अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । 

 चन्द्रादित्यसमे देवि चन्द्रभूषे नमो नमः ॥ १४ ॥


अणुरूपे महारूपे विश्वरूपे नमो नमः ।

अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ १५॥


ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः ।

नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥ १६॥


पद्मदे पद्मवंशे च पद्मरूपे नमो नमः ।

परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ १७॥


महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।

ब्रह्मविष्णुशिवाख्यायै ब्रह्मनार्यै नमो नमः ॥ १८॥


कमलाकरपुष्पा च कामरूपे नमो नमः । 

कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥ १९॥ 


सायं प्रातः पठेन्नित्यं षाण्मासात्सिद्धिरुच्यते ।

चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ २०॥


इत्थं सरस्वतीस्तोत्रमगस्त्यमुनिवाचकम् ।

सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ २१॥


॥ इत्यगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment