महर्षी अगस्त्यकृता
श्री परशुरामस्तुतिः
अगस्त्य उवाच ।
जामदग्न्यं तनालोक्य रामं सर्वाङ्गसुन्दरम् ।
मुदा परमयोपेतः शिरसा समवन्दिषम् ॥१॥
कृत्तो वनस्पतिरिव पातितो धरणीतले ।
विग्रहो मे मुनिश्रेष्ठाः रामस्य पवपद्मयोः ॥ २॥
अनुज्ञातः समुत्याय तोषयामास तं प्रभुम् ।
उच्चैः स्वरं समासाद्य पुण्डरीकाक्षविद्यया ॥ ३॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ ४॥
नमस्ते वासुदेवाय शान्तानन्दचिदात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधमे नमः ॥ ५॥
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥ ६॥
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ ७॥
अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥ ८॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥ ९॥
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वरिष्ठाय वसिष्ठाय कनिष्ठाय च ते नमः ॥ १०॥
पञ्चात्मने नमस्तुभयं सर्वान्तर्यामिणे नमः ।
कल्पनाक्रोसडरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ११॥
नमस्ते गुणरूपाय गुणरूपानुवतिने
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥ १२॥
आदिमध्यान्तशून्याय यद्वते च नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥ १३॥
लोकयात्राप्रसिद्ध्यथं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमुर्तिमेदाय विष्णवे ॥ १४॥
विपाकैः कर्मणां क्लेशैरस्पृष्टवपुवे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥ १५॥
नित्यासाधारणानेकलोकरक्षापरिच्छदे ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥ १६॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥ १७॥
नमः परमहंसाय नमः सर्वगुणाय ते ।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥ १८॥
इति भार्गवतन्त्रान्तर्गता अगस्त्यकृता परशुरामस्तुतिः समाप्ता ।
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರೀ ಓಂजामदग्न्यं तनालोक्य रामं सर्वाङ्गसुन्दरम् ।

भार्गवतन्त्र । अध्याय १ । २३-४०॥
ಅಗಸ್ತ್ಯ ಉವಾಚ |
ಜಾಮದಗ್ನ್ಯಂ ತನಾಲೋಕ್ಯ ರಾಮಂ ಸರ್ವಾಂಗಸುಂದರಮ್ |
ಮುದಾ ಪರಮಯೋಪೇತಃ ಶಿರಸಾ ಸಮವಂದಿಷಮ್ ॥ 1 ॥
ಕೃತ್ತೋ ವನಸ್ಪತಿರಿವ ಪಾತಿತೋ ಧರಣೀತಲೇ |
ವಿಗ್ರಹೋ ಮೇ ಮುನಿಶ್ರೇಷ್ಠಾಃ ರಾಮಸ್ಯ ಪವಪದ್ಮಯೋಃ ॥ 2 ॥
ಅನುಜ್ಞಾತಃ ಸಮುತ್ಥಾಯ ತೋಷಯಾಮಾಸ ತಂ ಪ್ರಭುಮ್ |
ಉಚ್ಚೈಃ ಸ್ವರಂ ಸಮಾಸಾದ್ಯ ಪುಂಡರೀಕಾಕ್ಷವಿದ್ಯಯಾ ॥ 3 ॥
ಜಿತಂತೇ ಪುಂಡರೀಕಾಕ್ಷ ನಮಸ್ತೇ ವಿಶ್ವಭಾವನ |
ನಮಸ್ತೇಽಸ್ತು ಹೃಷೀಕೇಶ ಮಹಾಪುರುಷಪೂರ್ವಜ ॥ 4 ॥
ನಮಸ್ತೇ ವಾಸುದೇವಾಯ ಶಾಂತಾನಂದಚಿದಾತ್ಮನೇ |
ಅಜಿತಾಯ ನಮಸ್ತುಭ್ಯಂ ಷಾಡ್ಗುಣ್ಯನಿಧಮೇ ನಮಃ ॥ 5 ॥
ಮಹಾವಿಭೂತಿಸಂಸ್ಥಾಯ ನಮಸ್ತೇ ಪುರುಷೋತ್ತಮ |
ಸಹಸ್ರಶಿರಸೇ ತುಭ್ಯಂ ಸಹಸ್ರಚರಣಾಯ ತೇ ॥ 6 ॥
ಸಹಸ್ರಬಾಹವೇ ತುಭ್ಯಂ ಸಹಸ್ರನಯನಾಯ ತೇ |
ಅಮೂರ್ತಾಯ ನಮಸ್ತುಭ್ಯಮೇಕಮೂರ್ತಾಯ ತೇ ನಮಃ ॥ 7 ॥
ಅನೇಕಮೂರ್ತಯೇ ತುಭ್ಯಮಕ್ಷರಾಯ ಚ ತೇ ನಮಃ |
ವ್ಯಾಪಿನೇ ವೇದವೇದ್ಯಾಯ ನಮಸ್ತೇ ಪರಮಾತ್ಮನೇ ॥ 8 ॥
ಚಿನ್ಮಾತ್ರರೂಪಿಣೇ ತುಭ್ಯಂ ನಮಸ್ತ್ರೈಯಂತಮೂರ್ತಯೇ |
ಅಣಿಷ್ಠಾಯ ಸ್ಥವಿಷ್ಠಾಯ ಮಹಿಷ್ಠಾಯ ಚ ತೇ ನಮಃ ॥ 9 ॥
ನೇದಿಷ್ಠಾಯ ದವಿಷ್ಠಾಯ ಕ್ಷೇಪಿಷ್ಠಾಯ ಚ ತೇ ನಮಃ |
ವರಿಸ್ಠಾಯ ವಸಿಷ್ಠಾಯ ಕನಿಷ್ಠಾಯ ಚ ತೇ ನಮಃ ॥ 10 ॥
ಪಂಚಾತ್ಮನೇ ನಮಸ್ತುಭ್ಯಂ ಸರ್ವಾಂತರ್ಯಾಮಿಣೇ ನಮಃ |
ಕಲ್ಪನಾಕ್ರೋಸಡರೂಪಾಯ ಸೃಷ್ಟಿಸ್ಥಿತ್ಯಂತಹೇತವೇ ॥ 11 ॥
ನಮಸ್ತೇ ಗುಣರೂಪಾಯ ಗುಣರೂಪಾನುವರ್ತಿನೇ |
ವ್ಯಸ್ತಾಯ ಚ ಸಮಸ್ತಾಯ ಸಮಸ್ತವ್ಯಸ್ತರೂಪಿಣೇ ॥ 12 ॥
ಆದಿಮಧ್ಯಾಂತಶೂನ್ಯಾಯ ಯದ್ವತೇ ಚ ನಮೋ ನಮಃ |
ಪ್ರಣವಪ್ರತಿಪಾದ್ಯಾಯ ನಮಃ ಪ್ರಣವರೂಪಿಣೇ ॥ 13 ॥
ಲೋಕಯಾತ್ರಾಪ್ರಸಿದ್ಧ್ಯರ್ಥಂ ಸ್ರಷ್ಟೃಬ್ರಹ್ಮಾದಿರೂಪಿಣೇ |
ನಮಸ್ತುಭ್ಯಂ ನೃಸಿಂಹಾದಿಮುರ್ತಿಭೇದಾಯ ವಿಷ್ಣವೇ ॥ 14 ॥
ವಿಪಾಕೈಃ ಕರ್ಮಣಾಂ ಕ್ಲೇಶೈರಸ್ಪೃಷ್ಟವಪುವೇ ನಮಃ |
ನಮೋ ಬ್ರಹ್ಮಣ್ಯದೇವಾಯ ತೇಜಸಾಂ ನಿಧಯೇ ನಮಃ ॥ 15 ॥
ನಿತ್ಯಾಸಾಧಾರಣಾನೇಕಲೋಕರಕ್ಷಾಪರಿಚ್ಛದೇ |
ಸಚ್ಚಿದಾನಂದರೂಪಾಯ ವರೇಣ್ಯಾಯ ನಮೋ ನಮಃ ॥ 16 ॥
ಯಜಮಾನಾಯ ಯಜ್ಞಾಯ ಯಷ್ಟವ್ಯಾಯ ನಮೋ ನಮಃ |
ಇಜ್ಯಾಫಲಾತ್ಮನೇ ತುಭ್ಯಂ ನಮಃ ಸ್ವಾಧ್ಯಾಯಶಾಲಿನೇ ॥ 17 ॥
ನಮಃ ಪರಮಹಂಸಾಯ ನಮಃ ಸರ್ವಗುಣಾಯ ತೇ |
ಸ್ಥಿತಾಯ ಪರಮೇ ವ್ಯೋಮ್ನಿ ಭೂಯೋ ಭೂಯೋ ನಮೋ ನಮಃ ॥ 18 ॥
ಇತಿ ಭಾರ್ಗವತಂತ್ರಾಂತರ್ಗತಾ ಅಗಸ್ತ್ಯಕೃತಾ ಪರಶುರಾಮಸ್ತುತಿಃ ಸಮಾಪ್ತಾ |
ಭಾರ್ಗವತಂತ್ರ | ಅಧ್ಯಾಯ 1 | 23-40 ॥

No comments:
Post a Comment