Tuesday, June 30, 2026

Nilamegha Stuti श्री नीलमेघस्तुतिः

                        अथ श्री नीलमेघस्तुतिः

श्री गुरुभ्ये नमः हरी: ॐ 

सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तकारिणे ।
चराचरस्वरूपाय पुराणपुरुषाय च ॥ १॥

नमो लोकशरण्याय दीनसंरक्षणाय च ।
भक्तपालनरूपाय आपन्नार्तिहराय च ॥ २॥

त्वत्पाददर्शनाद्दुःखमशेषं नः प्रणश्यतु ।
अनेकजन्मसाहस्त्रैः सम्भृतं पुण्यमस्ति मे ॥ ३॥

आगामि श्रेयसो हेतुर्वर्तमानाघशोधकम् ।
पूर्वपुण्यार्जितं कस्य नाशास्यं तव दर्शनम् ॥४॥

अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।
कृतार्थाः पितरस्सर्वे मम वंशसमुद्भवाः ॥ ५॥

फलिताः क्त्रतवो नूनं विप्राः सत्याशिषोऽभवन् ।
यथार्थो जनवादश्च चिराय भविता मम ॥ ६॥

नचेत्कथं त्वदीयाङ्घ्रिदर्शनं स्यादहैतुकम् ।
अपि जन्तुर्महद्दुःखी जीवन्भद्राणि पश्यति ॥ ७॥

मैरावणोऽपि दुष्टात्मा मातुलो मम निर्दयः ।
सद्गतिं प्राप्नुयात्सत्यमिति मे निश्चिता मतिः ॥ ८॥

आश्लिष्टसर्वगात्रोऽयं साक्षात्कृतपदद्वयः ।
त्वत्पादघातसम्मृष्टः हृतप्राणसमीरणः ॥ ९॥

एवं विधः कथं स्वामिन् नस्वामिन् मुच्येत भवाम्बुधेः ।
अन्यथा कथमन्येषां मुक्त्याशा भजतामपि ॥ १०॥

अद्य प्रभृति नः स्वामिन् भूयाद्भक्तिःस्वामिन् भूयाद्भक्तिः 
पदाब्जयोः ।धर्मार्थकाममोक्षाणां इयमेव प्रसूर्मम ॥ ११॥
इति श्री नीलमेघस्तुतिः समाप्ता ।

श्री कृष्णार्पणमस्तु 

No comments:

Post a Comment